SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ व्याख्या- आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाकरः, तथा गुरूणामनुपपातकारकः, प्रत्यनीकः प्रतिकुलवर्त्ती | कुतोऽयमेवंविधः ? इत्याह- यतो असंबुद्धोऽज्ञाततत्त्वः सोऽविनीत इत्युच्यते, कूलवालक श्रमणवत्, तथा हि सूरेरेकस्य शिष्योऽभू-दविनीतोऽतिरोषणः ॥ चुकोप कोपसदनं, शिक्ष्यमाणः स सूरिणा ॥ १ ॥ दक्षया शिक्षया सूरि-स्तथापि तमशिक्षयत् ॥ स तु तामपि मेनेऽन्त - विषाक्तविशिखोपमाम् ॥ २ ॥ हितशिक्षा हि दुष्टानां, नोपकाराय जायते ॥ पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ॥ ३ ॥ नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् ॥ पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् ॥ ४ ॥ शब्दायमानमायान्तं तं च प्रेक्ष्य गुरुर्द्धतम् ॥ पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे ॥ ५ ॥ अक्षतांस्ततः सूरिः क्रुद्धस्तेन कुकर्मणा ॥ भावीपातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् ॥ ६ ॥ गुरोर्गिरं मृषाकर्त्तु, क्षुलः क्षुद्रमतिः स तु ॥ गत्वा निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ॥ ७ ॥ स तत्रातापनासेवी, तपस्तेपे सुदुस्तपम् ॥ पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ॥ ८ ॥ अथायातासु वर्षासु, तरुणांबुदकामुकैः ॥ अपूर्यतार्णवानीतै- नदीवेश्याः पयोधनैः ॥ ९ ॥ एनं कूलंकपाकूलं, निकषासंस्थितं मुनिम् ॥ मानैषीदंवपुरोऽच्धि, दुष्टो वाह इवाटवीम् ॥ १० ॥ इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी ॥ कूलवालक इत्यू - स्ततस्तं संयतं जनाः ॥ ११ ॥ ( युग्मम् ) इतश्च श्रेणिको राजा, पुरे राजगृहेऽभवत् ॥ नंदा च चिल्लणा चास्तां, महिष्यौ तस्य मंजुले ॥ १२ ॥ तत्रा -
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy