SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ नातिदूरप्रदेशे स्थित इति शेषः, आसन्नातिदूरयोर्हि यथायोग जुगुप्साशंकानेषणादयो दोषाः स्युः, तत्र स्थितश्च । प्रासुकं सहजसंसक्तजजंतुरहितं परेण गृहिणा खार्थं कृतं परकृतं पिंडमाहारं प्रतिगृह्णीयात् खीकुर्यात् , संयतो | यतिरितिसूत्रार्थः॥ ३४ ॥ पुनासैषणाविधिमाहमूलम्-अप्पपाणप्पबीअंमि, पडिच्छण्णंमि संवुडे ॥ समयं संजए भुंजे, जयं अपरिसाडिअं॥ ३५॥ । व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्च अल्पप्राणे अपखितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिबीजवर्जिते, उपलक्षणत्वात्सकलस्थावरजंतुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा संपातिमप्राणिसंपातसंभवात् , संवृते पार्थतः कटकुड्यादिना संकटद्वारे, अटव्यां तु कुडंगादौ स्थाने इति शेषः, अन्यथा दीनादिना या चने दानादानयोः पुण्यबंधप्रद्वेषादिदोषदर्शनात् , समकमन्यमुनिभिः सह, न तु रसलंपटतया समूहासहिष्णुतया वा * एकाक्येव, गच्छस्थितसामाचारी चेयं, संयतः साधुर्भुजीत, अश्नीयात् , 'जयंति'यतमानः, 'सुरसुर"चबचब कसकस3 कादिशब्दानकुर्वन् , 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः ॥ ३५ ॥ यदुक्तं यतमान इति तत्र वाग्यतनामाहमूलम्-सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे॥ सुणिट्टिए सुलट्टत्ति, सावजं वजए मुणी॥३६॥ व्याख्या-सुकृतं सुष्टु निवर्त्तितं अन्नादि, सुपक्कं घृतपूरादि, इतिः उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy