SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन प्रथमाध्यय. नम् (१) ॥१९॥ शाकपत्रादेस्तिक्तत्वादि, यद्वा सुहृतं सूपयवाग्वादिना पात्रकादेघृतादि,सुमृतं घृतायेव सक्तुसूपादौ, सुनिष्ठितं सुप्तु निष्ठां रसप्रकर्षात्मिकां गतं, सुलष्टं अतिशोभनमोदनादि, अखंडोज्ज्वलखादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि सावा । वचो वर्जयेन्मुनिः । यद्वा सुष्टु कृतं यदनेन रिपोः प्रतिकृतं, सुपक्कं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं कदयस्य धनं चौराद्यैः, सुमृतोऽयं प्रत्सनीकविप्रादिः, सुनिष्ठितोऽयं प्रासादकूपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वर्जयेन्मुनिरिति । अनवद्यं तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयं शिष्यः खजनेभ्य उत्पाबाजयितुकामेभ्यः, सुमृतमस्य पंडितमरणमर्तुः, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्वेत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ ३६ ॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यत्स्यात्तद्दर्शयन्नाह मूलम्-रमए पंडिए सासं, हयं भदं व वाहए ॥ बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥३७॥ dil व्याख्या-रमते अभिरतिमान् भवति, पंडितान् विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, कमिव क इत्याह-हयमिवाश्वमिव भद्रं कल्याणावहं वाहकोऽश्वदमः। बालमज्ञं श्राम्यति खिद्यते शासत् , स हि | सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुनः पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टांतमाह-गल्यश्चमिव वाहक इति सूत्रार्थः ॥ ३७॥ गुरुशिक्षणे बालस्याशयमाह १९॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy