SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ द्वादशमध्ययनम् गा४४-४५ मूलम् तवो जोई जीवो जोइठाणं, जोगा सुआ सरीरं कारिसंग।। कम्मे एहा संजमजोगसंती, होमं हुणामि इसिणं पसत्थं ॥ ४४॥ _ व्याख्या-तपो बाह्याभ्यन्तरभेदभिन्नं ज्योतिरमिस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात् , जीवो ज्योतिःस्थान | तपोज्योतिषस्तदाश्रितत्वात् , योगा मनोवाकायाः स्रुचस्तैर्हि शुभव्यापाराः स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं करीषांगं तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः, कर्म एधास्तस्यैव तपसा भस्मीभवनात् , संयमयोगाः संयमव्यापाराः शान्तिः, सर्वजीवोपद्रवापहारित्वात्तेषां, तथा 'होमंति' होमेन जुहोमि तपोज्योतिरिति शेषः, ऋषीणां मुनीनां सम्बन्धिना 'पसत्थंति' प्रशस्तेन जीवघातरहिततया विवेकिभिः श्लाषितेन सम्यक् चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः॥४४॥ इत्थं यज्ञखरूपं ज्ञात्वा स्नानखरूपं पृच्छन्तस्ते इदं स्माहुः __ मूलम्-के ते हरए के अ ते संतितित्थे, कहिंसि पहाओ व रयं जहासि। ___अक्खाहि णो संजयजक्खपूइआ, इच्छामु नाउं भवओ सगासे ॥ ४५ ॥ व्याख्या-कस्ते तव हृदो नदः १ 'के अतेत्ति' किं च ते शान्यै पापोपशमार्थ तीर्थ ? 'कर्हिसि पहाओ वत्ति'
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy