SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २७४ ॥ ३ १२ वाशब्दस्य भिन्नक्रमत्वात्कस्मिन्वा स्रातः शुचीभूतो रज इव रजः कर्म जहासि त्यजसि ? गम्भीराशयो हि त्वं, तत्कि - मस्माकमिव तवापि हृदतीर्थमेव शुद्धिस्थान मन्यद्वेति न विद्म इति भावः । आचक्ष्व वद नोऽस्माकं संयतयक्षपूजित ! इच्छामो ज्ञातुं भवतः सकाशे समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह- मूलम् - धम्मे हर बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे । जहिंसि हाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ॥ ४६ ॥ व्याख्या-धर्मः अहिंसादिरूपो हृदस्तस्यैव कर्मरजोपहारित्वात् ब्रह्मेति ब्रह्मचर्य शान्तितीर्थ, तदासेवने हि सकलमलमूलं रागद्वेषावुन्मूलितावेव तदुन्मूलने च न पुनर्मलसम्भव इति, सत्याद्युपलक्षणं चैतत्तथा चाह-" ब्रह्मचर्येण सत्येन तपसा संयमेन च ॥ मातङ्गर्षिर्गतः शुद्धिं न शुद्धिस्तीर्थयात्रया ॥ १ ॥" किं च भवदिष्टतीर्थानि प्राणिपीडाहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ? यदुक्तं - "कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनम् ॥ सागरेणापि कृच्छ्रेण, वधको नैव शुद्ध्यति ॥ १ ॥” हृदशान्तितीर्थे एव विशिनष्टि, अनाविले | मिथ्यात्वगुप्तिविराधनादिभिरकलुषे, अत एवात्मनो जीवस्य प्रसन्ना मनागप्यकलुषां लेश्या पीताद्यन्यतरा यस्मिं - स्तदात्मप्रसन्नलेश्यं तस्मिन् धर्महदे ब्रह्माख्यशान्तितीर्थे च 'जहिंसित्ति' यस्मिन् स्त्रात इव स्नातो विमलो भाव द्वादशमध्ययनम् (१२) गा ४६ ॥ २७४ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy