SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२७३॥ पसर्गसहिष्णुतया त्यक्तकायाः, शुचयोऽकलुषव्रतास्ते च ते त्यक्तदेहाश्चात्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान् द्वादशमजयः कर्मारिपराजयरूपो यत्र स महाजयस्तं 'जयइत्ति' वचनव्यत्ययाद्यजन्ति यतय इति गम्यं । ततो भवन्तोप्येवं ध्ययनम् यजन्तां 'जण्णसिटृति' प्राकृतत्वात् श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं खिष्टं कुशला वदन्ति, एष एव च कर्मप्रणो गा ४३ दनोपाय इति सूचितमिति सूत्रार्थः ॥ ४२ ॥ अथ यद्ययं यज्ञः श्रेष्ठस्तदामुं यजमानस्य कान्युपकरणानि ? को वा यजनविधिः? इति ते प्रश्नयामासुः-- मूलम्-के ते जोई किं व ते जोइठाणं, का ते सुआ किं व ते कारिसंग । एहा य ते कयरा संति भिक्खू , कयरेण होमेण हुणासि जोइं ॥ ४३ ॥ व्याख्या-'के इति' किं ते तव ज्योतिरग्निः ? किं वा ते तव ज्योतिःस्थानं ? यत्राग्निनिधीयते, कास्ते सुचो है। घृतादिक्षेपिका दर्व्यः ? किं वा ते करीष एवाङ्गं अनलोद्दीपनहेतुः करीषाङ्गं ? येनाग्निः सन्धुक्ष्यते, एधाश्च समिधोमा याभिरग्निः प्रज्वाल्यते ते तव कतराः काः ? 'संतित्ति' चस्य गम्यत्वाच्छान्तिश्च दुरितोपशमहेतुरध्ययनपद्धतिः? कतरेति प्रक्रमः, हे भिक्षो! कतरेण होमेन हवनविधिना जुहोषि ? आहुतिभिस्तर्पयसि ? ज्योतिराग्निं । षड्जीवकायारम्भनिषेधे ह्यस्मदिष्टो होमस्तदुपकरणानि च पूर्व निषिद्धानि तत्कथं तव यज्ञसम्भवः ? इति सूत्रार्थः॥४३॥ मुनिराह ९ ॥२७३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy