________________
त्रयोदशमध्ययनम् गा १३
यां गाथां श्रुत्वेति शेषः, भिक्षवो मुनयः शीलं चारित्रं, गुणो ज्ञानं, ताभ्यामुपपेताः शीलगुणोपपेता इह जिनप्रवचने यतन्ते यत्नवन्तो भवन्ति, सोपस्कारत्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न तु दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ॥ १२ ॥ एवं मुनिनोक्ते चक्री खसम्पदा निमंत्रयितुमाह
मूलम्-उच्चोदए महु कक्के अ बंभे, पवेइआ आवसहा य रम्मा।
इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं ॥ १३ ॥ व्याख्या-उच्चोदयो मधुः कः चशब्दान्मध्यो ब्रह्मा चेति पञ्च प्रधानाः प्रासादाः प्रवेदिता मम वर्द्धकिपुरःसरेरुपनीता इत्यर्थः, आवसथाश्च शेषा भवनप्रकारा रम्या रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः। किञ्च इदं प्रत्यक्षं गृहमवस्थितिप्रासादरूपं प्रभूतं बहु, चित्रं विविधमाश्चर्यकारिवा, धनमस्मिन्निति प्रभूतचित्रधनं, प्राकृतत्वात्पूर्वापरनिपातः, प्रशाधि पालय उप क्ष्वेति भावः। पाञ्चाला नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अयं भावः-पाञ्चालेषु यानि श्रेष्ठवस्तूनि तानि सर्वाण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथा हि भरतेपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ॥ १३॥ किञ्च