SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२९३॥ त्रयोदशमध्ययनम् गा११-१२ *35436400K ** 'मूलम्-जाणासि संभूअ महाणुभागं, महिड्डिअं पुण्णफलोववेअं। चित्तंपि जाणाहि तहेव रायं, इड्डी जुई तस्सवि अप्पभूआ ॥ ११ ॥ व्याख्या-जानासि अवबुध्यसे यथा त्वमात्मानमिति शेषः, हे सम्भूत ! पूर्वभवे सम्भूताभिधानमहानुभागं बृहन्माहात्म्यं महर्धिकं चक्रवर्तिपदावाप्त्या सातिशयसम्पयुक्तं, अत एव पुण्यफलोपपेतं चित्रमपि जानीहि, तथैव तादृशमेव हे राजन् ! किमित्येवमत आह-ऋद्धिः सम्पत् , द्युतिर्दीप्तिस्तस्यापि जन्मान्तरनाम्ना चित्राभिधानस्य ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता बढी बभूवेति शेषः, गृहस्थभावे ममाप्येवंविधत्वादेवेति भावः ॥ ११ ॥ यदि तवाप्येवंविधा सम्पदभूत्तदा कथं प्रबजितः ? इत्याह मूलम्-महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंगमज्झे । जं भिक्खुणो सीलगुणोववेआ, इहज्जयंते समणोम्हि जाओ ॥ १२ ॥ व्याख्या-महार्थरूपा अनन्तद्रव्यपर्यायात्मकतया बह्वर्थखरूपा, वचनेनाप्रभूता वचनाप्रभूता, खल्पाक्षरेत्यर्थः । कासौ ? गीयते इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं श्रोतुरनुकूलं गीता कथिता अनुगीता । अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । केत्याह- नरसङ्घमध्ये, न तु कोणके प्रविश्येति भावः, ** ॥२९३॥ *
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy