SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन में नकोट्टवीराख्यौ, ताभ्यामासीत्परम्परा ॥ ८॥ इत्यष्टमो दिक्पटसंज्ञनिह्नवः, प्रकाशितो हारितशुद्धबोधिकः ॥ तृतीयमध्य लब्धोऽपि बोधिव्रजतीति कस्यचित् , तद्रक्षणं तत्कुरुत प्रयत्नतः!॥ ८१॥ इत्यष्टमनिह्नवकथा ॥ इति समाप्ता ॥१३४॥ यनम् (३) निह्नववक्तव्यतेति सूत्रार्थः ॥९॥ अथ मानुषत्वादित्रयावाप्तावपि संयमे वीर्य दुर्लभमित्याहदमूलम्-सुईच लद्धं सद्धं च.वीरिअं पुण दल्लंहं ॥ बहवे रोअमाणावि. नोयणं पडिवज्जए॥१०॥ व्याख्या-श्रुतिं, चशब्दात्मानुषत्वं च, लब्ध्वा प्राप्य, श्रद्धां च, वीर्य, प्रक्रमात्संयमविषयं पुनःशब्दस्य विशेष- 2 कत्वात् विशेषेण दुर्लभं, यतो बहवो रोचमाना अपि श्रद्दधाना अपि 'नोयणंति' सूत्रत्वान्नो एनं संयमं प्रतिपद्यन्ते चारित्रमोहनीयकोदयतः सत्यकिश्रेणिकादिवत्कतु नाङ्गीकुर्वन्तीति सूत्रार्थः ॥ १०॥ अथास्य चतुरङ्गस्य फलमाह है मूलम्-माणुसत्तंमि आयाओ, जो धम्म सुच्च सदहे ॥ तवस्सी वीरिअं लड़े, संवुडे निद्भुणे रयं ॥११॥ | व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा 'सइहेत्ति' श्रद्धत्ते स तपखी निदानादिरहिततया प्रशस्यतपोन्वितः वीय संयमोद्योगं लब्ध्वा संवृतः स्थगिताश्रवो निर्धनोति नितरामपनयति, रजो बध्यमानकर्मरूपं, तदपनयनाच मुक्तिमेवाप्नोतीति भाव इति सूत्रार्थः ॥ ११॥ इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाह ॥१३४॥ मूलम्-सोही उजुअभूअस्स, धम्मो सुद्धस्स चिट्टइ ॥ णिव्वाणं परमं जाइ,घयसित्तिव पावए ॥ १२॥ व्याख्या-शुद्धिः कषायकालुप्यापगमः, स्यादिति गम्यते, ऋजुभूतस्य चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य Antonnonton
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy