SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ BESARKARKARSAASA तथा च धमःक्षान्त्यादिः शुद्धस्य तिष्ठत्यविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसौ विचलत्यपि, धर्मायस्थितौ च निर्वाणं जीवन्मुक्तिरूपं परमं प्रकृष्टं याति गच्छति, उक्तं हि-"निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् ॥ विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ॥ १ ॥ इति" कथम्भूतः सन् ? घृतसिक्तः पावक इव ज्वलन इव, तपस्तेजोज्वलितत्वेन घृततर्पितानलसमानः सन्निति सूत्रार्थः ॥ १२ ॥ इत्थं फलमुपदय शिष्योपदेशमाहमूलम्-विगिंच कम्मुणो हेडं, जसं संविणु खंतिए ॥ पाढवं सरीरं हिच्चा, उड्ढे पक्कमई दिसिं ॥ १३॥ | व्याख्या-'विगिंचत्ति' विवेचय पृथक्कुरु कर्मणः प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य हेतुमुपादानकारणं मिथ्यात्वाविर-3 त्यादिकं, तथा यशोहेतुत्वात् यशः संयमो, विनयो वा, तत्सञ्चिनु पुष्टं कुरु, कया ? क्षान्त्या, उपलक्षणत्वान्मादेवा |भिश्च, एवं च कृते किं स्यादित्याह-'पाढवंति' पार्थिवं, परप्रसिद्ध्या पृथिवीविकारं, शरीरं वपुर्हित्वा त्यक्त्वा, उद्धं दिशमिति सम्बन्धः, प्रक्रामति प्रकर्षेण पुनर्भवाऽभावरूपेण गच्छतीति सूत्रार्थः ॥१३॥ एवं तद्भव एव मुक्तिया यिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाह* मूलम्-विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा ॥ महासुकाव दिपंता, मण्णंता अपुणच्चयं ॥१४॥ अप्पिा देवकामाणं, कामरूवविउविणो ॥ उर्ल्ड कप्पेसु चिट्ठति, पुवावाससया बहू ॥ १५ SOSIALISASI SAUSAS
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy