SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन व्याख्या-विसालिसेहिति' मगधदेशीभाषया विसदृशैः स्वखचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नः शीलै-| तृतीयमध्य व्रतपालनात्मकैरनुष्ठानविशेषेर्यक्षा देवा ऊर्दू कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-उत्तरो- | यनम् (३) ॥१३५॥ त्तरा यथोत्तरं प्रधानाः, महाशुक्ला अतिशयोज्वलतया चन्द्रादित्यादयः ते इव दीप्यमानाः प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-मन्यमाना मनस्यवधारयन्तो विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च अपुनश्च्यवं अपुनश्च्यवनं तिर्यगादिपूत्पत्तेरभावम् ॥१४॥ तथा 'अप्पि अत्ति' अर्पिता इवार्पिता ढौकिताः प्रक्रमात्प्राकृतसुकृतेन, केषामित्याह-देवकामानां दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया रूपविकरणं येषां ते कामरूपविकरणा यथेष्टरूपादिकरणशक्तियुक्ता इत्यर्थः । ऊर्द्धमुपरिकल्पषु सौधर्मादिषु, उपलक्षणत्वात् ग्रैवेयकानुत्तरेषु च, तिष्ठन्ति आयुःस्थितिमनुभवन्ति, पूर्वाणि सप्ततिकोटिलक्षषट्पंचाशत्कोटिसहस्रवर्षपरिमितानि, वर्षशतानि प्रतीतानि, बहून्यसंख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थितित्वात्, पल्योपमे च तेषामसंख्ययानामेव भावात् , पूर्ववर्षशतग्रहणं त्विह पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वमिति सूचनार्थमिति सूत्रद्वयार्थः॥१४॥ १५ ॥ अथ तेषामेतावदेव फलमुतान्यदपीत्याह ॥१३५॥ I मूलम्-तत्थ हिच्चा जहाठाणं,जक्खा आउक्खए चुआ॥उवेन्ति माणुसं जोणिं,से दसंगेभिजायइ ॥१६॥ व्याख्या-तत्र तेषु देवलोकेषु सौधर्मादिषु स्थित्वा यथास्थानं यद्यस्य खानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् । ASHISHERSONA
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy