SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ क्षिभिर्द्विधापि, श्रयणीयः प्रतिबुद्धजीविभावः ॥ ३३४ ॥ इति द्रव्यभावनिद्रात्यागेऽगडदत्तसाधुकथा ॥ प्रतिबुद्धजीवी सन् किं कुर्यादित्याह - 'न वीससे' इत्यादि - न विश्वस्यात्प्रमादेष्विति गम्यते, अयं भावः - बहुजनादृतत्वात् प्रमादा नानर्थकारिण इति विश्रम्भवान्न भवेत्, पण्डितो विद्वान् । आशु शीघ्रमुचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः, कुतश्चायमाशुप्रज्ञो ? यतो घोरा रौद्राः सततमपि प्राणापहारिणो मुहूर्ताः कालविशेषा दिवसाद्युपलक्षणं चैते, कदाचिच्छारीरबलात् घोरा अप्यमी न प्रभविष्यन्तीत्यत आह-अवलं वलरहितं मृत्युदायिनो मुहूर्ता - | न्निराकर्तु विसोढुं वा असमर्थ शरीरं वपुः, उक्तञ्च – “सत्थगीजलसावय - वीसूइआवाहिअहिविसाईहिं ॥ जज्जरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ॥ १ ॥ जं ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं ॥ जरडाइणिआवासं, का कीरउ तत्थ दीहासा ! ॥ २ ॥ " तर्हि किं कार्यमित्याह - भारुण्डपक्षीव चराऽप्रमत्तः, यथा भारुण्डपक्षी अप्रमत्तश्चरति, तथा त्वमपि प्रमादरहितश्चर, विहितानुष्ठानमासेवख, अन्यथा तु यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सह साधारणस्य मध्यवर्त्तिचरणस्य सम्भवात्खल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः, उक्तञ्च - "एकोदराः पृथग्ग्रीवा, अन्यान्यफलकांक्षिणः ॥ प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः ॥ १ ॥” तथा तवापि प्रमाद्यतः संयमजीविताद्धंश एवेति सूत्रार्थः ॥ ६ ॥ अमुमेवार्थ स्पष्टयन्नाह -
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy