________________
-
उत्तराध्ययन
--
चतुर्थमध्ययनम् (४)
॥१५७॥
तन्मनसां क्रूर-भावो व्याघ्रादिजित्वरः ॥३२० ॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः ॥ नार्यो रक्ता विरक्ताश्च, विचेष्टन्ते तदप्यहो ! ॥ ३२१॥ यः प्रेम्णा मन्यते वामाः, खप्राणेभ्योऽपि वल्लभाः॥ अध्यवस्यन्ति तम- पि, हन्तुं हेतुं विनापि ताः ॥३२२ ॥ अपि वारांनिधेरापो, गङ्गायाः सिकताकणाः ॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ॥३२३॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता-स्तासु रज्येत कः सुधीः? ॥३२४॥ तन्मां धिगस्तु निर्लजं, येन तस्याः कृते मया ॥ अहारि तद्यशो हारि,कुलञ्च मलिनीकृतम् ॥३२५॥ यद्वा विवेको वैराग्यं, पाण्डित्यं संयमो दमः ॥ तावत्स्यात्प्राणिनां याव-न्न स्युस्ते रमणीवशाः ॥ ३२६ ॥ संसारे च सुखं स्त्रीभ्य-स्ताश्चैवंविधचेष्टिताः ॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना !॥ ३२७ ॥ ध्यात्वेत्यादि गुरूनत्वा, जगादैवं नृपाङ्गजः ॥ खामिन्निदं चरित्रं मे, यत्पूज्यैः प्रतिपादितम् ॥ ३२८ ॥ अहं ह्येषां भ्रातृघाती, तस्या दुष्टस्त्रियाः पतिः ॥ निर्विण्णोस्मि भवादस्मा-निशम्य चरितं निजम् ! ॥३२९ ॥ सद्यः प्रसद्य तन्मह्यं, दीक्षां दत्त मुनीश्वराः !॥ ऐहिकामुष्मिकानन्त- सुखाङ्करसुधापगाम् ! ॥ ३३० ॥ ततस्तैर्दीक्षितो दीक्षा-मत्युग्रां परिपाल्य &सः॥ सुदुस्तपं तपस्तत्त्वा, क्रमानिर्वाणभागभूत् ॥ ३३१॥ यथा चायं सुधीद्रव्य-निद्रां परिहरन् पुरा ॥ दस्युना|
तद्भगिन्या च, नावश्यत कथञ्चन ! ॥३३२ ॥ प्रान्ते च भावतो जाग्र-त्परत्राप्यभवत्सुखी ॥ अन्योप्येवं द्विधा | जाग्र-दुभयत्र सुखी भवेत् ॥ ३३३ ॥ इति सुन्दरभूपनन्दनर्षे-श्वरितं चित्रकरं निशम्य सम्यक ॥ भविकैः शिवकां-
॥१५७॥