SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ६ इव नभसः ॥ स तु तेन द्रुमफलमिव, दीर्घशिरोऽपातयत् पृथिव्याम् ॥ ३७० ॥ जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टिं तदा व्यधुः समवसरण इव ॥ ३७१ ॥ पौरैः पितेव दृष्टो वन्दिभिरिव जयजयेति वचनपरैः ॥ सोत्सवमविशच्चक्री, काम्पील्यं त्रिदिवमिव मघवा ॥ ३७२ ॥ नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ॥ ३७३ ॥ तस्याथ नृपैर्निखिले - रभिषेको द्वादशाब्दिको विदधे ॥ सोथागमयत्समयं समयभित्र समं सुखं विलसन् ॥ ३७४ ॥ अन्येद्युर्वरगीतं, सङ्गीतं तस्य | पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं ददौ कुसुमकन्दुकं दासी ॥ ३७५ ॥ तं प्रेक्ष्य चक्रवर्त्ती, दृष्टः कापीदृशो मयेत्यन्तः ॥ कुर्वन्नूहं स्मृत्वा पञ्चभवान्मूच्छितो न्यपतत् ॥ ३७६ ॥ सम्भ्रान्तैः सामन्तैः सिक्तश्चन्दनरसैर्गतः स्खा - स्थ्यम् ॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीदृशमिति स बुबुधे ॥ ३७७ ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री ॥ तं ज्ञातुममुं चक्रे, सार्धश्लोकं शुचिश्लोकः ॥ ३७८ ॥ " तथाहि - [ " दासा दसणे आसी, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमीए ॥ १ ॥ देवा य देवलोगंमि, आसि अम्हे महिडिआ" ] पूरयति यो द्वितीयं, लोकं तस्मै ददामि राज्यार्धम् ॥ इति चाघोषयदुच्चैः, पुरेऽखिले प्रतिदिनं चक्री ॥ ३७९ ॥ राज्यार्थी चक्रे तं श्लोकं सार्धं जनोऽखिलः कण्ठे ॥ पूरितवान्न तु कश्चिद्विपश्चिदपि पश्चिमश्लोकम् ॥ ३८० ॥ इतश्च १ पूरितवान्न तु कश्चि- पश्चिममर्द्ध द्वितीयस्य ॥ इति "घ" संज्ञकपुस्तके ॥ १२ त्रयोदशमध्ययनम् चित्रसम्भूतचरित्रम् ३७० - ३८०
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy