SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तपस्तथा ॥ ५५ ॥ कुरुध्वं देवपूजाञ्च, प्रयत्नेन महीयसा ॥ इत्याकाऽखिलो लोक-स्तत्तथा प्रत्यपद्यत ॥५६॥ मृत्वा वह्निकुमारेपू-त्पन्नो द्वैपायनोऽप्यथ ॥ द्वारकामाययौ स्मृत्वा, प्राग्वैरं यदुगोचरम् ॥ ५७ ॥ देवपूजातपोनिष्ठपौरायां पुरि तत्र सः॥परं धर्मविशेषेण, नापकर्तुमभूत्प्रभुः ॥५८ ॥ ततः सोन्वेषयंश्छिद्रा-ण्यसुरोऽस्थात्पुरोऽ-18 न्तरे ॥ अथेत्थं द्वादशे वर्षे, प्रासे लोको व्यचिन्तयत् ॥ ५९॥ अस्मत्तपः प्रभावाद्धि, नष्टो द्वैपायनामरः ॥ तहस्तपं तपस्त्यक्त्वाऽधुना खैरं रमामहे ! ॥ ६०॥ इति ते क्रीडितुं लग्ना, मद्यमांसादिसेविनः ॥ द्वैपायनोऽपि तच्छिद्रमासाद्य मुमुदेऽधिकम् ॥ ६१॥ द्वारकायां तदाचास-नुत्पाताः क्षयसूचकाः॥ हलचक्रादिरत्नानि, प्रणेशुः सीरिशाणिोः ॥ ६२॥ ततो विकृत्य संवर्त-यातं द्वैपायनासुरः ॥ काष्ठपत्रतृणव्यूहा-नाहत्याऽपूरयत्पुरीम् ॥६३॥ दिग्भ्योऽष्टभ्योऽपि तेनैव, वातेन निखिलान् जनान् ॥ पलायमानानानीय, निचिक्षेप पुरोऽन्तरे ॥ ६४ ॥ द्वासप्ततिं पुरो मध्य-गताः षष्टिं बहिःस्थिताः ॥ कुलकोटीः पिण्डयित्वा, स देवोऽग्निमदीपयत् ॥६५॥ द्वारकायां ततो ज्वाला-जिह्वो जज्वाल सर्वतः॥ उन्मूल्य वृक्षवल्लयौदी-न्मुहुस्तत्राऽसुरोऽक्षिपत् ॥६६॥ वह्निना तेन नीरन्ध्रधूमेन व्याकुलीकृताः ॥ सन्दानिता इवाऽनीशा, गन्तुमेकमपि क्रमम् ॥ ६७ ॥ बालवृद्धवधूयुक्ताः, क्रन्दन्तः करुणखरम् ॥ सर्वेप्यन्योन्यसंलग्नाः, पौरास्तत्रावतस्थिरे ॥ ६८॥ [ युग्मम् ] गृहा मणिवर्णमया, व्यलीयन्त क्षणात्तदा ॥ १ इत्थं द्वादश वर्षाणां, प्रान्ते लोको व्यचिन्तयत् । इति 'ग' संज्ञकपुस्तके ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy