SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ *** शुभम् ॥६॥ यूथे गत्वाऽथ यूथेशं, वंचयित्वा च सा मुहुः। तमाश्रमं समागत्य, खनंदनमदीधयत् ॥७॥ मुग्धत्वमधुराकार, कलमं मुनयोऽपि तम् ॥ सलीलं लालयामासुः, खपुत्रमिव वत्सलाः॥८॥ शुण्डामापूर्य सकलः कलभोऽपि सः॥ सहर्षिपुत्रकैः सेकं, चकाराश्रमभूरुहान् ॥९॥ तं सेचनकनामानं, तापसाः प्रोचिरे ततः॥ क्रमाच यौवनं प्राप्तः, सोऽभूत्प्राज्यपराक्रमः ॥१०॥ अटन्नटव्यां तबूथं, द्विपः सोऽपश्यदन्यदा ॥ अरीरमञ्च |संजाता-नुरागास्तत्करेणुकाः॥ ११॥ तं दृष्ट्वाऽमर्षणो यूथ-नाथस्तं प्रत्यधावत ॥ वृद्धं निहत्य तं यूथ-खामी सेचनकोऽभवत् ॥ १२॥ अन्यापि काचित्करिणी, कलभं रक्षितुं निजम् ॥ उपायं मम मातेव, माकार्षीदितिचिंतयन् ॥ १३॥ कृतघ्नः सगजोऽभांक्षी-न्मक्षु तं तापसाश्रमम् ॥भजन्ति खाश्रयं दन्ता-बलाः प्रायः खला इव ॥ १४ ॥ [युग्मम् ] अस्माभिः पोषितेनाऽपि, द्विपेनाऽनेन हा! वयम् ॥ उपद्रुतास्तकिमपि, दर्शयामोऽस्य तत्फलम् ॥१५॥ ध्यात्वेति तापसाः कोपा-दत्वा श्रेणिकभूभृते ॥ पुष्पादिप्राभृतभृतो, विज्ञा व्यज्ञपयन्निदम् ॥ १६ ॥ [ युग्मम् ] प्रभो ! सेचनकाह्वानः, सर्वलक्षणलक्षितः ॥ भद्रजातिवनेऽस्माकं, विद्यते गन्धसिन्धुरः ॥ १७ ॥ पृथिव्यां रत्नभूतोऽयं, तवैवाऽर्हति भूपते ! ॥ श्रुत्वेति सैन्ययुक् राजा, तं ग्रहितुमगाद्वनम् ॥ १८ ॥ उपायैर्भूरिभिर्भूप-स्तं गृहीत्वाथ दंतिनम् ॥ आनीय खपुरेऽबधा-दालाने शृंखलागणैः ॥ १९ ॥ ततः स्वीयवशायूथ-वियोगातुरचेतसम् ॥ अरुन्तुदैवचोभिस्तं, निनिंदुरिति तापसाः॥ २०॥रे! कृतघ्न ! क? तबीय, शौण्डीय चाधुना तव ॥ फलमस्मद 453
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy