________________
उत्तराध्ययन
सप्तमाध्य यनम् (७)
॥१९१॥
मनुष्यकामान् देवकामोपमान् मन्यते, परं कुशाग्रजलबिन्दुसमुद्रवन्मनुष्यदेवकामानां महदेवान्तरमिति सूत्रार्थः॥२३॥ उक्तमेवार्थ निगमयन्नुपदेशमाह
मूलम्-कुसग्गमित्ता इमे कामा, संनिरुद्धम्मि आउए।कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे॥ २४ ॥ PI व्याख्या-कुशाग्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा- मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादि
माने दीर्घ आयुषि, ततः 'कस्स हेउंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलब्धस्य लाभो योगो लब्धस्य पालन क्षेमस्तयोः समाहारे योगक्षेम, अप्राप्तविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भावः-योगक्षेमाज्ञाने हि भोगाभिष्वङ्ग एव हेतुर्मनुष्यभोगाश्च धर्मप्रभावप्रभवदिव्य भोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतनीयमिति सूत्रार्थः ॥ २४ ॥ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्तं, अपायबहुलमपि यन्न तुच्छं न तत्परिहतुं शक्यत इति काकिण्याम्रफलदृष्टान्ताभ्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकव्यवहाराभिज्ञतया आयव्ययतोलनानिपुण एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्रदृष्टान्तस्तत्र च दिव्यकामानामधिजलोपमत्वमुक्तं, तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्वतो दर्शितमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव स्यादिति तस्य दोषमाह--
॥१९१॥