SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 6425069-OCOMOCROSOCIOS प्रतिपत्तिरूपेण वर्तन्ते इति सविशेषाः, अत एवाऽदीनाः, कथं वयममुत्र भविष्यामः? इति वैक्लव्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्टसंहननादिसामग्रीसद्भावे तु मोक्षमपि यान्तीति सूत्रार्थः ॥ २१॥ उक्तमर्थ निगमयन्नुपदेशमाहमूलम्-एवमदीणवं भिक्खु, आगारि च विआणिआ। कहं नु जिच्चमेलिक्खं,जिच्चमाणोन संविदे॥२२॥ __व्याख्या-एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षु मुनिमगारिणं च गृहस्थं विज्ञाय विशेषेण तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिचंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकपायादिभिरिति शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभं, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ॥ २२॥ समुद्रदृष्टान्तमाह-- मूलम्-जहा कुसग्गे उदगं, समुद्देण समंमिणे। एवं माणुस्सगा कामा, देवकामाणमंतिए ॥२३॥ व्याख्या-यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात् , अयं |भावः-यथा कोप्यज्ञः कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात्, न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति । एवं मानुष्यकाः कामा देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिच्चक्रवर्त्यादि CRACANCERNER
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy