SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ मूलम् - एअमहं निसामित्ता, हेउकारण चोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४३ ॥ | मूलम् - मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए।न सो सुअक्खायधम्मस्स,कलं अग्घइ सोलसिं ॥ ४४ ॥ व्याख्या - मासे मासे एव तुशब्दस्यैव कारार्थत्वान्नत्वर्थमासाद्रौ यः कश्चिद्वालो निर्विवेकः कुशाग्रेणैव दर्भायेणैव भुंक्ते, न तु कराङ्गुल्यादिभिः । न नैव स तादृशतपोनुष्ठायी, सुष्ठु शोभनः सर्वसावद्यविरतिरूपत्वादाख्यातस्तीर्थकरैः कथितः खाख्यातो धर्मो यस्य स स्वाख्यातधर्मो मुनिः तस्य कलां भागमर्घति अर्हति षोडशीं षोडशांश| समोपि न स्यादितिभावः । ततो यत्खाख्यातं न स्यात् तद्घोरमपि धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । खाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । ननु ? पूर्वसूत्रे इहैव 'पोस - हरओ भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते, 'समणोवासया बालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इतिचेदुच्यते - देशविरतस्य बालपण्डितत्वे सत्यपि एकादशाविरतिमत्तापेक्षया वाल्यांशस्य प्राधान्यविवक्षयैवमुक्तं सम्भाव्यते । दृश्यते हि समये साखादनवतां ज्ञानांशवत्त्वेऽपि तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्रार्थः ॥ ४४ ॥ ६ मूलम् - एअमहं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ४५ ॥ व्याख्या - पुनर्नीरागतामेव परीक्षितुमदोऽवददिन्द्रः ॥ ४५ ॥ उत्तराध्ययन ॥ २२६ ॥ ३ ९ १२ नवमाध्य. यनम् (९) गा४३-४५ ॥२२६॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy