SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ नवमाध्य यनम् गा४६-४८ मूलम्-हिरण्णं सुवण्णं मणिमुत्तं, कंसं दूसं च वाहणं । कोसं वड्डावइत्ता णं, तओ गच्छसि खत्तिआ !॥ ४६॥ व्याख्या-हिरण्यं घटितवर्ण, सुवर्णं ततोऽन्यत् , मणयश्चन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्तं, कांस्यं कांस्यभाजनादि, दुष्यं वस्त्रं, चकारः खगतानेकभेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा वृद्धि नीत्वा ततो गच्छ क्षत्रिय ! अयं भावः यो यः साकांक्षः स स धर्मानुष्ठानायोग्यः, साकांक्षश्च भवान् , आकांक्षणीयखर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थः ॥ ४६॥ मूलम्-एयमट्ट निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥१७॥ मूलम्-सुवण्णरुप्पस्स उ पवया भवे, सिआ हु केलाससमा असंखया। नरस्स लद्धस्स न ते हिं किंचि, इच्छा ह आगास समा अणंतिआ॥४८॥ व्याख्या-सुवर्ण च रूप्यं च सुवर्णरूप्यं तस्य, तुः पूत्तौ, पर्वताः पर्वतप्रमाणा राशयः ‘भवेत्ति' भवेयुः स्यात्क-2 दाचित् , हुरवधारणे भिन्नक्रमश्च, ततः कैलाससमा एव, न तु लघुगिरिप्रमाणाः, कैलासश्चात्र मेरुरिति वृद्धाः, तेप्यसंख्यकाः संख्यारहिता न तु द्वित्राः, नरस्य लुब्धस्य न तैः तादृशैरपि स्वर्णरूप्यपर्वतैः किञ्चिदपि खल्पमपि
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy