________________
नवमाध्ययनम् गा४१-४२
वदता यज्ञादीनां सावद्यत्वमर्थात् ज्ञापितं । यदुक्तं याज्ञिकैः-“षट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि ॥ अश्वमेधस्य वचना-न्यूनानि पशुभिस्त्रिभिः ॥१॥” ततः पशुहिंसात्मकत्वात्सावद्या एव यागाः। तथा दानान्यपि अशनादीनां धर्मोपकरणानाञ्च धर्माय भवन्ति, स्वर्णगोभूम्यादीनां तु दानानि प्राण्युपमर्दहेतुत्वात्सावधान्येव सावद्यत्वाच यागादीनि न प्राणिप्रीतिकराणीतिभाव इति सूत्रार्थः ॥ ४०॥ मूलम्-एअमटं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४१॥
व्याख्या-प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाढ्य परीक्षितुमिदमाचचक्षे हर्यश्वः ॥ ४१॥ मूलम्-घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं। इहेव पोसहरओ, भवाहि मणुआहिवा ! ॥ ४२ ॥3 | व्याख्या-घोरोत्यन्तदुरनुचरः सचासावाश्रमश्च घोराश्रमो गार्हस्थ्यं, तस्यैवाल्पसत्त्वैर्दुष्करत्वात् । उक्तञ्च"गृहाश्रमपरो धर्मो, न भूतो न भविष्यति ॥ पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः॥१॥" तं त्यक्त्वा अन्यं प्रार्थयसे ? आश्रमं दीक्षालक्षणं, नेदं हीनसत्त्वोचितं भवाशां युक्तं । तर्हि किं युक्तमित्याह-इहास्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पोषधोऽष्टम्यादितिथिषु व्रतविशेषस्तत्र रतः पौषधरतो भव हे मनुजाधिप ! अणुव्रताधुपलक्षणञ्चैतत्, अस्यैवोपादानं तु पौषधदिनेष्ववश्यम्भावात्तपोनुष्ठानख्यापकं । इह च यद्यघोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, घोरश्चायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ॥ ४२॥
-SACRECER-CRORRRRRRE