SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ २२० ॥ देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच व्यर्थ त्वया विना ! ॥ २२१॥ तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् ॥ कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ॥ २२२ ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत ॥ अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः॥२२३॥ हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवनृपो देव !, मन्मुखेनेति याचते ॥ २२४॥ स्वामिन्मे देवदत्तायां, निविडं प्रेम वर्तते ॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ २२५॥ ततःप्रोचे नृपो राज्य-15 मप्येतत्तस्य विद्यते ॥ तत् िविक्रमराजेन, राज्ञैतन्मात्रमर्थितम् ? २२६॥ इत्युदित्वा देवदत्तां, समाकार्य नृपोऽलपत् ॥ भद्रे ! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ! २२७॥ देवतादत्तराज्यश्रीः,प्राहिणोन्मूलदेवराट् ॥ त्वामानेतुं निजं मर्त्य, | तत्त्वया तत्र गम्यताम् ॥२२८॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं ।। पुरे ॥ २२९ ॥ सोऽथ वैषयिकं सौख्यं, भुआनो देवदत्तया ॥ धर्मकृत्यं व्यधान्नित्य-मर्हचैत्यार्चनादिकम् ॥ २३० ॥ इतश्चागण्यपण्यौघ, भृत्वा पारसकूलतः ॥ भागाद्वेण्णातटेऽन्येद्युः, सार्थवाहोऽचलाह्वयः ॥ २३१ ॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ॥ २३२ ॥ ततः वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ मापालं प्रेक्षितुं सोऽगा-द्भपोप्यासनमार्पयत् ॥ २३३ ॥18 तमुपालक्षयन्मंक्षु, भूपो भूपं तु नाऽचलः ॥ श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ॥ २३४ ॥ ESSAIRESCE
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy