SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ व्याख्या-एवमनन्तरोक्तमर्थ खप्रेक्षया खबुद्ध्या 'पासेत्ति' पश्येदवधारयेत् , शमितमुपशमितं दर्शनं प्रस्तावान्मिथ्यात्वात्मकं येन स शमितदर्शनः सम्यग्दृष्टिः सन् , 'छिंदत्ति' सूत्रत्वात् छिंद्यात् , गृद्धिं विषयाभिष्वङ्गरूपां, स्नेहञ्च खजनादिप्रेम, न नैव कांक्षेदभिलपेत् पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखोत्पत्तौ अत्रामुत्र वा त्राणाय धर्म विनेति सूत्रद्वयार्थः ॥ ४ ॥ एनमेवार्थ विशेषतोऽनूद्यास्यैव फलमाहमूलम्-गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेअं चइत्ता णं, कामरूवी भविस्ससि ॥ ५॥ | व्याख्या-गावश्च अश्वाश्च गवाश्चं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात्, मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलं,उपलक्षणं चैतत्वर्णादीनां सर्वभूषणानाञ्च । पशवोऽजैडकादयः । दासाश्च गृहजातादयः 'पोरुसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः, कामरूपी भविष्यसि, इहैव विकरणाद्यनेकलब्धियोगात् परत्र च देवभवाप्तेरिति सूत्रार्थः ॥ ६ ॥ पुनर्द्वितीयगाथोक्तसत्यखरूपमेव विशेषत आहमूलम्-थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पच्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे॥६॥ १ अथवा-सम्यकप्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी ॥ ग. घ.
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy