SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१७७॥ लेमे ॥ तथाङ्गिनोऽन्येपि लभंन्ति तत्व-ज्ञानं विना दुःखमनेकभेदम् ॥ ३३ ॥ इति विद्याहीनत्वे दुःस्थकथेति षष्ठमध्यसूत्रार्थः ॥१॥ यतश्चैवं ततो यत्कार्य तदाह यनम् (६) मूलम्-समिक्खं पंडिए तम्हा, पासजाइपहे बहू ॥ अप्पणा सच्चमेसिजा, मित्तिं भूएसु कप्पए ॥२॥ ___ व्याख्या-समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात् , किं समीक्ष्येत्याह-'पासेत्यादि'-पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीवमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बहून् प्रभूतान् विद्यारहितानां विलुप्तिहेतून् , किं कुर्यादित्याह-आत्मना खयं न तु परोपरोधादिना, सद्भ्यो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्वेषयेत्, किञ्च मैत्री मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति सूत्रार्थः ॥२॥ अपरञ्चमूलम्-माया पिआ ण्हुसा भाया, भज्जा पुत्ताय ओरसा। नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा॥३॥ | व्याख्या-पूर्वाधं स्पष्टं, नवरं 'बहुसत्ति' सुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः स्वयमुत्पादिता इत्यर्थः, नालं न समस्त मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य खकर्मणा ज्ञानावरणीयादिनेति ॥३॥ ततश्च 13॥१७॥ मूलम् –एअमहं सपेहाए, पासे समिअ दसणे । छिंद गेहिं सिणेहं च, न कंखे पुवसंथवं ॥४॥ १ आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः ।।
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy