SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ *BARA BARUSASUSAHA णुका ॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः॥ १०८॥ अत्रैवार्थे मूलदेवो-ऽप्यादेष्टव्यो भुजिष्यया ॥ द्वयोरपि तयोर्मात-विशेषो ज्ञायते यथा ॥ १०९॥ इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् ॥ साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगौ ॥ ११० ॥ ततस्स पंचषानिक्षू-नादायापास्य तत्त्वचम् ॥ मुक्त्वा मूलाग्रपाणि, व्यङ्गुला गण्डिका व्यधात् ॥ १११ ॥ कर्पूरवासितास्ताश्च, चातुर्जातकसंस्कृताः॥ शूलप्रोताः शरावान्तः, क्षिप्त्वा प्रेषीत्तदावृताः ॥ ११२ ॥ ताः प्रेक्ष्य मुदिता देव-दत्ताऽऽख्यजननीमिति ॥ अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ! ॥ ११३॥ तदहं तद्गुणैरेव, तस्मिन् रक्तास्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ॥ ११४ ॥ करोम्युपायं 5 तत्कञ्चि-येनायं कामुकः खयम् ॥ पुर्या निर्याति जाङ्गुल्याः, पाठेनेव गृहादहिः॥११५॥ ध्यात्वेति शम्भली माहा|ऽचलं कैतवकोविदा ॥ नामान्तरं गमिष्यामी-त्यलीकं ब्रूहि मे सुताम् ॥ ११६ ॥ तमावास्यति धूर्त सा, ज्ञात्वा । त्वामन्यतो गतम् ॥ तदा भटैर्वृतः सजै-मत्सङ्केतात्त्वमापतेः ॥ ११७ ॥ धूर्ततामृगधूर्त च, तं तथैवापमानयेः ॥ यथाभूयोऽत्र नागच्छे-त्सर्पधाम्नीव मूषकः ॥ ११८॥ तत्वीकृत्याऽचलो देव-दत्तायै खं वितीर्यच ॥ ग्रामं यामीत्युदित्वा च, निरगात्तनिकेतनात् ॥ ११९ ॥ निःशंका देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागातत्र सत्रोद्भटैर्भटैः ॥ १२० ॥ तं चाऽऽयान्तं वीक्ष्य देव-दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव-स्तल्पस्याधो न्यलीयत ॥ १२१॥ शय्याधःस्थं च तं ज्ञात्वा, शम्भलीसंज्ञयाचलः ॥ तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ AUGAISRICHIERICIREAISHA
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy