SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ो उत्तराध्ययन द्वादशमध्ययनम् (१२) ॥२६५॥ गा १३ वान्छया एतया कर्षकाशंसाकल्पया श्रद्धया 'दलाहित्ति' ददध्वं मह्यं, अयं भावः-यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं से मन्यध्वे, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं दत्तेपि न फलावाप्तिरिति ध्येयमित्याह-आराहए। पुण्णमिणं खुत्ति' खुशब्दस्य एवकारार्थस्य भिन्नक्रमत्वादाराधयेदेव साधयेदेव, नानान्यथाभावः, पुण्यं शुभमिदं दृश्यमानं क्षेत्रंदानस्थानं, पुण्यसस्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति सूत्रार्थः ॥१२॥इति यक्षेणोक्ते ते स्माहुः मूलम्-खेत्ताणि अम्हं विइआणि लोए, जहिं पकिण्णा विरुहंति पुण्णा। जे माहणा जाइविज्जोववेआ, ताई तु खित्ताई सुपेसलाई ॥ १३ ॥ व्याख्या-क्षेत्राणि अस्माकं विदितानि ज्ञातानि, सन्तीति शेषः, लोके जगति 'जहिंति' वचनव्यत्ययायेषु त |क्षेत्रेषु प्रकीर्णानि दत्तानि, अशनादीनीति शेषः, विरोहन्ति जन्मान्तरे प्रादुर्भवन्ति पूर्णानि समस्तानि, न चाहमपि तन्मध्यवत्यैवेति त्वया ध्येयं, यतो ये ब्राह्मणाः, जातिश्च ब्राह्मणजातिरूपा, विद्या च चतुर्दशविद्यास्थानात्मिका, ताभ्यां 'उववेअत्ति' उपपेताः अन्विताः जातिविद्योपपेताः, 'ताई तुत्ति' तान्येव क्षेत्राणि सुपेशलानि शोभनानि, न तु भवाशानि शूद्रजातीनि विद्याविकलानि । यदुक्तं-“सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे ॥ सहस्रगुणमाचार्य, अनन्तं वेदपारगे॥१॥” इति सूत्रार्थः ॥ १३ ॥ यक्षः स्माह SHEHRESORCE ॥२६५॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy