SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ १२ मूलम् — कोहो अमाणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो अ । ते माणा जातिविज्जाविहीणा, ताई तु खित्ताइं सुपावगाई ॥ १४ ॥ व्याख्या— क्रोधश्च, मानश्च च शब्दान्मायालोभौ च वधश्च येषामिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसंति' मृषा अलीकभापणं, अदत्तं अदत्तादानं, चशब्दान्मैथुनं च परिग्रहश्च गोभूम्यादि स्वीकारोस्तीति सर्वत्र गम्यते, ते इति क्रोधाद्युपेता यूयं जातिविद्याविहीनाः । कथमिति चेदुच्यते - क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यदुक्तं"एकवर्णमिदं सर्व, पूर्णमासीद्युधिष्ठिर ! ॥ क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १ ॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ॥ अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत् ॥” न चेदृशी क्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु युष्मासु तत्वतः सम्भवत्यतो न तावज्जातिसम्भवः, तथा विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात् किञ्च सम्यग्ज्ञानस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात्, न च युष्मासु विरतिसम्भवोस्ति, तदभावे च ज्ञानं सदप्यसदेवेति स्थितं । 'ताई तुत्ति' तुरव - धारणे भिन्नक्रमश्च ततस्तानि भवद्विदितानि द्विजरूपाणि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४ ॥ अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो वयं ब्राह्मणजातयश्च तत्कथं जातिविद्याविहीना इत्यत्रवीरित्याह द्वादशमध्ययनम् मा १४
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy