SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थाध्ययनम् ॥ ॥ अर्हन् ॥ उक्तं तृतीयमध्ययनमथ चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने चतुरङ्गी दुर्लभेत्युक्तमिह तु तत् प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया वक्तुं प्रमादाप्रमादाभिधं चतुर्थाध्ययनमाह, तस्य चेदमादिसूत्रम् मूलम्-असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नत्थि ताणं ॥ ___ एअंविआणाहि जणे पमत्ते, कं नु विहिंसा अजया गहिति ॥ १॥ हा व्याख्या-असंस्कृतं असंस्करणीयं, जीवितं प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस्य वा तस्य कर्णपाश वत्सन्धातुमशक्यत्वात् , यदुक्तं-"वासाई दोण्णि तिण्णि व, वाहिजइ जइ घरं पि सीडेइ ॥ सा का वि नत्थि नीई, सीडिजइ जीविअं जीए!॥ १॥” तथा-"मङ्गलैः कौतुकर्योगै-विद्यामंत्रैस्तथौषधैः ॥ न शक्ता मरणात्रातुं, सेन्द्रा देवगणा अपि !॥१॥” ततः किं कार्यमित्याह-मा प्रमादीः, अयं भावः- यद्यायुः कथञ्चित्संस्कर्तुं शक्यं स्यात्तदा चतुरङ्गीप्राप्तावपि न प्रमादो दोषाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां भूयो दुर्लभेति मा प्रमादं कृथाः। ननु ? वार्धक एव धर्म करिष्यामीति कोऽपि वक्ति इत्याशंक्याह-जरामुपनीतः प्रापितो गम्यमानत्वात्ख
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy