SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन चतुर्थमव्ययनम्(४) ॥१३८॥ कर्मभिर्जरोपनीतस्तस्य 'हु' इति निश्चये नास्ति त्राणं शरणं, येन जराऽपनीयते न तच्छरणमस्ति, यदुक्तं-"रसायणं| निसेवति, मजं मंसं रसं तहा ॥ भुंजंति सरसाहारं, जरा तहवि न नस्सए ॥१॥" जराजर्जरवपुषश्च नैव तादृशी 8 धर्मकरणशक्तिः स्यात्ततो यावदसौ न व्याप्नोति तावद्धर्मे मा प्रमादीः। उक्तं च-"तद्यावदिन्द्रियबलं, जरया रोगैन बाध्यते प्रसभम् ॥ तावच्छरीरमूच्छी, त्यक्त्वा धर्म कुरुष्व मतिम् ॥ १॥" जरोपनीतस्य च त्राणं नास्तीत्यत्राट्टनमलो दृष्टान्तस्तत्र चायं सम्प्रदायः, तथाहि| उजयन्यां नगर्या श्री-जितशत्रुनूपोऽभवत् ॥ तत्र चाप्रतिमल्लोभून्मल्लराजोऽट्टनाभिधः ॥ १॥ स च गत्वान्य-14 राज्यस्थै-रपि मल्लैरयुध्यत ॥ तस्य दोर्दण्डकण्डूस्तु, व्यपनिन्ये न केनचित् ॥ २॥ तदा चाम्भोधितीरस्थे, पुरे सोपारकाभिधे ॥ मल्लयुद्धप्रियः सिंह-गिरिसंज्ञोऽभवन्नपः॥३॥यो मलेष्वजयत्तस्मै, भूपः सोऽदाद्धनं घनम् ॥ इति तत्राऽट्टनो गत्वा, प्रत्यब्दमजयत्परान् ॥४॥ ततः सिंहगिरिदध्यौ, यदागत्यान्यराज्यतः ॥ अयं जयति मन्मल्लान्ममापभाजना हि सा ॥ ५॥ ततोऽहमपरं कञ्चि-कुर्वे मलं बलोत्कटम् ॥ ध्यात्वेति मार्गयन्मलं, वार्द्धितीरे ययौ नृपः ॥ ६॥ वसां पिबन्तं मीनानां, तत्राद्राक्षीच धीवरम् ॥ ततस्तं बलिनं ज्ञात्वा, पोषयामास पार्थिवः ॥७॥ अशिक्षयन्नियुद्धं च, भूपस्तस्य तरखिनः ॥ ततः सोऽभून्महामलो-ऽजय्योन्यैहस्तिमल्लवत् ॥ ८॥ अथानो नियु-12 द्धाहे, समासन्ने निजात्पुरात् ॥ शम्बलेन बलीवर्द, भृत्वा सोपारकं ययौ ॥९॥ स च मात्स्यिकमल्लेन, नियुद्धे | ॥१३८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy