SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ IMAGARIKAACAR निर्जितो द्रुतम् ॥ विषादमाससादोच्चै-भग्नो हस्तीव हस्तिना ॥ १० ॥ स्वीयावासे ततो गत्या-ऽट्टन एवं व्यचि-16 दन्तयत् ॥ केनाप्यजितपूर्वोहं, मल्लेनानेन निर्जितः॥ ११ ॥ तारुण्योपचयाञ्चायं, चीयमानबलः कथम् ? ॥ पुनर्जय्यो| मया क्षीणो-जसा यौवनहानितः!॥ १२॥ कर्तव्या वैरशुद्धिश्च, मयोपायेन केनचित् ॥ शल्यवत् खाट्करोत्यन्तनिम्लानिर्हि मानिनाम् ॥ १३ ॥ ध्यात्वेति तजैत्रबलं, सोऽन्यं मलं गवेषयन् ॥ सौराष्ट्र बहवो मलाः, श्रुत्वेति तमभित्रजन् ॥ १४ ॥ भृगुकच्छसमीपस्थ-हरणीग्रामसीमनि ॥ एकं कर्षकमद्राक्षी-कर्पासवपनोद्यतम् ॥ १५ ॥ [ युग्मम् ] हलमेकेन हस्तेन, वाहयन्तं द्रुतं द्रुतम् ॥ द्वितीयेनोत्पाटयन्तं, फलहीस्तृणलीलया ॥ १६ ॥ तञ्च प्रेक्ष्य पुमानेष, बलिष्ठ इति चिन्तयन् ॥ तदीयाहारवीक्षायै, तत्रास्थाद्यावदट्टनः ॥ १७॥ [युग्मम् ] प्रातराशकृते तावलात्वा कूरभृतं घटम् ॥ तत्रागात्तत्प्रिया सोऽपि, सीरमच्छोटयत्ततः॥१८॥ कूरञ्च सद्यः कुम्भस्थं, जनसे ग्रासलीलया ॥ गत्वा क्वापि पुरीपस्यो-त्सर्ग चक्रे च कर्षकः ॥ १९ ॥ अट्टनोऽपि ततो गत्वा, तत्पुरीषं व्यलोकत ॥ तचाद्राक्षीदतिखल्पं, शुष्कं छागपुरीषवत् ॥ २० ॥ जाठराग्निं ततस्तस्य, ज्ञात्वा प्रबलमट्टनः ॥ वैरशुद्धिसमर्थोयं, भावीत्यन्तरभावयत् ॥ २१ ॥ तस्यैव सौधे सन्ध्यायां, ययाचे वसतिं च सः ॥ सोऽपि तामार्पयत्तत्र, मल्लोप्यस्था-| द्यथासुखम् ॥ २२॥ का युष्माकं जीविकेति, तं च पप्रच्छ वार्तयन् ॥ प्रोचे कृषीवलोप्येव-मस्म्यहं ननु निर्धनः ॥ २३ ॥ तत्प्राज्येन प्रयत्नेन, कृषि कुर्वे तथा पि हि ॥ अन्नमप्युदरापूर्ति-करं सम्पद्यते न मे ! ॥ २४ ॥ मल्लो-| R १४ I
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy