SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१३९॥ वादीदमुं मुक्त्वो-द्यममेहि समं मया ॥ अतिस्तोकेन कालेन, कुर्वे त्वामीश्वरं यथा ! ॥ २५॥ सोप्यूचेऽहं तदा- चतर्थमध्यगच्छा-म्यादिशेद्यदि मां वशा ॥ पृष्टा मलेन तत्रार्थे, ततः साप्येवमब्रवीत् ॥ २६ ॥ उप्तोस्त्यनेन कर्पासो-ऽधुना|| यनम् (४) स च विनाऽमुना ॥ विनश्यति तदा च स्या-त्कथमाजीविका मम ? ॥ २७॥ मल्लोब्रवीदत्र यावान् , कर्पासश्चि|न्तितो भवेत् ॥ गृहाण तावतो मूल्य-मधुनैवार्पयामि ते ॥ २८ ॥ इत्युदीर्य तया प्रोक्त-मानं मलो ददौ धनम् ॥ ततोनुमेने सा कान्तं, किं हि वित्तान्न जायते ? ॥ २९ ॥ अट्टनोथ तमादाय, ययावुज्जयनी जवात् ॥ पोषयामास तं प्रोच्चै-रुपायैश्च परश्शतैः॥३०॥ अशिक्षयच तस्योग्रं, मलयुद्धं महौजसः ॥ फलहीमल इत्यस्या-ऽभिधानं च विनिर्ममे ॥ ३१॥ द्वितीयाब्दे च सम्प्राप्ते, मलयुद्धमहोत्सवे ॥ अट्टनोगात्समं तेन, पुनः सोपारके पुरे ॥३२॥ अथ सिंहगिरौ राज्ञि, मल्लयुद्धदिदृक्षया ॥ समं पौरैः परोल?-रङ्गमण्डपमाश्रिते ॥ ३३ ॥ योधं योधमनेकेषु, मल्लेखूपरतेषु च ॥ नियुद्धार्थमढौकेतां, फलहीमात्स्यिको मिथः ॥ ३४ ॥ [युग्मम् ] क्षोभयन्तौ भुजास्फोट-रवैर्वीर स्यपि ॥ कम्पयन्तौ धरापीठं, दुर्धरैः पाददर्दुरैः ॥ ३५॥ मुष्टामुष्टिप्रकुर्वन्तौ, दन्तादन्तीव कुञ्जरौ ॥ प्रबलैः। पादविन्यास-नमयन्ताविव क्षमाम् ॥ ३६ ॥ भूतले निपतन्तौ च, छिन्नमूलमहाद्रुवत् ॥ मातलाचावधूयाङ्ग-मुत्ति- ॥१३९॥ ठन्तौ विनिद्रवत् ॥ ३७॥ विलगन्तौ मिथो बाढं, चिरान्मिलितबन्धुवत् ॥ कृतप्रहारहुडुव-द्वियुञ्जानौ च सत्व-| रम् ॥ ३८॥ उत्पतन्तौ पतङ्गवत् , प्लवमानौ प्लवङ्गवत् ॥ तो चिरं चक्रतुर्मल्ल-युद्धं मल्लशिरोमणी ॥३९॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy