SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ग्गतिहेतुः, यदाहुः- “तिरिआउ गूढहिअओ, सढो ससलो समज्जिणइत्ति” अयं चात्र भावार्थ:- यतोऽयं बालो नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गतिः सम्भवतीति सूत्रार्थः ॥ १७॥ पुनर्मूलच्छेदमेव स्पष्टयति मूलम् - तओ जिए सई होइ, दुविहं दुग्गइं गए। दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥ १८ ॥ व्याख्या - ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्व वाक्यं सावधारणमिति न्यायाजित एव हारित एव 'सइंति' सदा भवति द्विविधां नरकतिर्यगूरूपां दुर्गतिं गतः, कुतश्चैवं ? यतो दुर्लभा तस्य वालस्य 'उमग्गत्ति' सूत्रत्वादुन्मज्जा नरकतिर्यग्गतिनिर्गमनरूपा अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति सूत्रार्थः ॥ १८ ॥ इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयमुपदर्श्य मूलप्रवेशिनि तदुपदर्शनायाह मूलम् — एवं जिअं सपेहाए, तुलिआ बालं च पॅडिअं । मूलिअं ते पवेसंति, माणुसं जोणिमिंति जे ॥ १९ ॥ व्याख्या - एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं 'सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य तथा तोलयित्वा गुणदोषवत्तया परिभाव्य वालं पण्डितं च मौलिकं मूलधनं ते मूलप्रवेशकवणिक्सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपांडित्यासेवनादिति सूत्रार्थः ॥ १९ ॥ कथं मनुष्ययोनिमायान्तीत्याह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy