SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन मूलम्—ण कोवए आयरियं, अप्पाणंपिण कोवए ॥ बुद्धोवघाई ण सिआ, णसिया तोत्तगवेसए॥४०॥ प्रथमाध्यय॥२०॥ 18] व्याख्या-न कोपयेन्न कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि 5 नम् (१) गुरुभिः परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथंचित्सकोपतायामपि बुद्धोपघाती आचार्याापघातकारी न स्थान्न भवेत् उदाहरणं चात्र, तथाहिP] गच्छे कापि पुराऽभूवन् , गणिसंपत्समन्विताः। युगप्रधानाःप्रक्षीण-पाप्मानः सूरिपुङ्गवाः॥१॥ चिकीर्षवोऽपि ते सम्यग्, विहारं मुनिनायकाः ॥ क्षीणजंघाबला नित्यं, पुरे क्वाप्यवतस्थिरे ॥ २ ॥ सत्खेतेषु मुनीन्द्रेषु, जिनशास-6 नभानुषु ॥ तीर्थ सनाथमस्तीति, चिन्तयन्तो महाधियः ॥३॥ तत्रत्याः श्रावका धन्यं-मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै-राहारैरौषधैश्च तान् ॥४॥[युस्मम् ] गुरुकर्मभराकान्ता, निःस्नेहाः खगुरावपि ॥ अन्यदा तत्समीपस्थाः, कुशिष्या व्यसृशन्निति ॥५॥ अस्माभिः पालनीयोऽयं, कियच्चिरमजङ्गमः॥स्थेयं चात्र कियत्कालं, कारायामिव बन्दिभिः॥६॥ ततः केनाप्युपायेन, कार्यतेऽनशनं गुरोः ॥ मृतेऽस्मिन् बंधनोन्मुक्ता, विहरामो यथा वयम् ॥ ७॥ विमृश्येति पुरः सूरे-रन्तप्रान्ताशनादिकम् ॥ उपनीय स्फुरत्खेदा, इवैवं ते जडा जगुः ॥ ८॥ ईशामपि युष्माकं, योग्यमन्नौषधादिकम् ॥ सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ॥९॥ निर्विण्णास्तदमी नूनं, श्रावका नित्यदानतः॥ भवेयुर्नीरसा भूरि-पीडनान्नेक्षवोऽपि किम् ? ॥१०॥ अकिंचना वयं तकिं, कुर्मो
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy