________________
दुर्बलिकापुष्प - मित्रर्षिर्वो गणाधिपः ॥ २८ ॥ इयत्कालं मदादेशो, युष्माभिर्मानितो यथा ॥ अतः परं तथा मान्यं, वचोऽमुष्य गणेशितुः ॥ २९ ॥ अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् ॥ अयं तु स्तोकमप्यागो, न कस्यापि सहिष्यते ॥ ३० ॥ इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा ॥ ततो दुर्बलिकापुष्प - मित्रमित्थं जगौ गुरुः ॥ ३१ ॥ गुणित्वाद्वत्स ! गच्छोऽयं, त्वदङ्के स्थाप्यते मया ॥ तदसौ भवता मद्व - पालनीयो महामते ! ॥ ३२ ॥ श्रीफल्गुरक्षिते गोष्ठा - माहिले च यथा मया ॥ प्रवृत्तं भवताऽप्येवं वर्त्तितव्यं, विशेषतः ॥ ३३ ॥ इत्युक्त्वा स्थापयित्वा च तं मुनीन्द्रं निजे पदे ॥ विहितानशनाः स्वर्ग, जग्मुः श्री आर्यरक्षिताः ॥ ३४ ॥ श्रीआर्यरक्षिताचार्यान् स| माकर्ण्य दिवङ्गतान् ॥ गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् ॥ ३५ ॥ न्यधीयत निजे पट्टे, शिष्यः को नाम सूरिभिः ? ॥ इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् ॥ ३६ ॥ ततोऽभ्युत्थाय ते कुम्भ - दृष्टान्तांस्तानुदीर्य च ॥ श्रीमद्दुर्वलिकापुष्प - मित्राख्यं सूरिमूचिरे ॥ ३७ ॥ तन्निशम्योद्गतामर्षो, माहिलः सर्वसाधुभिः ॥ इहैव | तिष्ठतेत्युक्तो - ऽप्यनिच्छन्निर्ययौ वहिः ॥ ३८ ॥ पूर्वोपाश्रयपार्श्वस्थे, स्थित्वा सोपाश्रये पृथक् ॥ प्रावर्तिष्ठान्यसाध्वादीन् व्युग्राहयितुमुच्चकैः ॥ ३९ ॥ व्युद्वाहयितुमैशिष्ट, न पुनः कञ्चनापि सः ॥ ततः सोऽन्वेषयामास, सूरीणां छिद्रमन्वहम् ॥ ४० ॥ इतश्च पुष्पमित्राख्य- सूरयोप्यर्थपौरुषीम् ॥ सर्वर्षीणां पुरश्चक्रुः, श्रुतार्थकथनात्मिकाम् ॥ ४१ ॥ सूरीणां सन्निधानेऽर्थ, शृणुतेति महर्षिभिः ॥ तदा प्रोक्तो माहिलर्षि - ईर्पाविष्टोऽब्रवीदिति ॥ ४२ ॥