SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन में यस्य, प्रदेया गणधारिता ॥ अयोग्यस्य तु तद्दाने, दातुर्दोषो भवेन्महान् ॥ १४ ॥ यदाहुः-“बूढो गणहरसद्दो, तृतीयमध्य गोअमाईहिं धीरपुरिसेहिं ॥ जो तं ठवेइ अपत्ते, जाणतो सो महापावो! ॥१५॥” तदाचार्यपदं देयं, योग्य- यनम् (३) ॥१२८॥ स्यैव विवेकिना ॥ अयोग्यस्तु न तस्याहः, पायसस्येव वायसः!॥ १६ ॥ योग्यस्तु मम शिष्येषु, गुणरत्नमहोदधिः ॥ अस्ति दुर्बलिकापुष्प-मित्रनामा महाशयः ॥ १७ ॥ सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा ॥ श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः॥ १८॥ कांक्षन्ति गणधारित्वं, खजनत्वाद्धि ते तयोः ॥ सम्यग्जानन्ति न त्वेषां, त्रयाणां गौणमन्तरम् ॥ १९॥ ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे ॥ शिष्यं दुर्बलिकापुष्प-मित्राख्यं द्र स्थापयाम्यहम् ॥ २०॥ विमृश्येत्यखिलान् साधून् , समाहूय मुनीश्वरः ॥ वल्लतैलाज्यकुम्भानां, दृष्टान्तानित्यवो-15 चत ॥ २१॥ वल्लकुम्भाद्यथा रिक्ती-कर्तुं नीचैर्मुखीकृतात् ॥ निष्पावा निखिला मध्य-गता निर्यान्ति सत्वरम् ॥ २२ ॥ एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः ॥ जातोऽस्मि श्रुतसूत्रार्थ-दाने वल्लघटोपमः ॥ २३ ॥ | अधोमुखीकृतात्तैल-घटात्तैलं यथा द्रुतम् ॥ निर्याति भूरि किञ्चित्तु, तिष्ठत्यपि घटाश्रितम् ।। २४ ॥ फल्गुरक्षितसंज्ञस्य, श्रुताम्नायार्पणे तथा ॥ जातोऽस्म्यहं तैलकुम्भ-सन्निभो भो महर्षयः ! ॥ २५ ॥ अवाङ्मुखीकृतादाज्य-knen कुम्भात्तु स्तोकमेव हि ॥ घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ॥ २६ ॥ एवं जातोऽस्म्यहं गोष्ठा-माहिलाभिधसन्मुनेः॥ श्रीमत्सिद्धान्तसूत्रार्थ-दाने घृतघटोपमः॥ २७ ॥ तदयं श्रुतपाथोधि-पारश्वा गुणोदधिः ॥ अस्तु
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy