SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वादशमध्ययनम् ॥ द्वादशमध्ययनम् हरिकेशबल चरितम् १-९ ॥ अहम् ॥ उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थ तपः| समृद्धिर्वर्ण्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ हरिकेशबलचरितं तावदुच्यते । तथा हि। मथुरायां महापुर्या, शंखनामा महीधवः ॥ भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ॥१॥ क्रमागीतार्थतां प्राप्तो, विहरन् वसुधातले ॥ सोगाद्रजपुरं भिक्षा-निमित्तं तत्र चाविशत् ॥ २॥ एका रथ्या हुतवह- रथाङ्का तत्र चाभवत् ॥ सा हि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ॥३॥ ताश्चातिगन्तुं पादाभ्यां, मुसुरोपमवालुकाम् ॥ नाभूत्कोपि प्रभुर्वज्र-वालुकामिव निम्नगाम् ॥४॥ यश्चाज्ञानाजनस्तस्यां, रथ्यायां प्रविशेत्तदास द्राक् म्रियेत चनको, भृज्यमान इवोच्छलन् ॥५॥ ताञ्च प्राप्तो भ्रमन् साधुर-सञ्चारां समीक्ष्य सः॥ पप्रच्छासन्नसौधस्थं, सोमदेवपुरोधसम् ॥ ६॥ मार्गेणानेन गच्छामि, न वेति वद सन्मते ! ॥ न ह्यज्ञातखरूपेणा-ध्वना गच्छन्ति धीधनाः ॥७॥ दन्दह्यमानं मार्गेऽस्मिन् , विलुठन्तमितस्ततः॥ पश्याम्येनमिति विष्टः, सोप्यूचे गम्यतामिति ॥८॥ ततस्तेनैव मार्गेण, गन्तुं प्रववृते व्रती ॥ तन्महिना स मार्गोऽभू-त्सलिलादपि शीतलः॥९॥ पुरोहितोपि तं द्रष्टु-मारोह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy