SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वादशम ध्ययनम ॥२६०॥ (१२) हरिकेशबल चरितम् १०-२३ देहकुट्टिमम् ॥ तञ्चोपयुक्तं तत्रापि, यान्तमद्रुतमैक्षत ॥ १०॥ ततः स विस्मितो विप्र-स्तस्मिन्मार्गे ययौ खयम् ॥ तुषारशीतलस्पर्श, तश्च वीक्ष्येत्यचिन्तयत् ॥ ११॥ पापेन पापकर्मेदं, किमहो विहितं मया!॥ करीपाग्निसमस्पर्श. मार्गसौ यत्प्रवेशितः ॥ १२ ॥ अहो! अस्य तपः शक्ति-र्यदध्वा तादृशोप्यसौ ॥ सुधारसैः सिक्त इव, प्राप शैत्यं वचोतिगम ! ॥ १३॥ तस्मान्महाप्रभावोयं, महात्मा श्रमणाग्रणीः॥ वन्दनीयो जगद्वन्द्यः, शमामृतमहोदधिः। ॥ १४ ॥ इति ध्यात्वा नवाम्भोद-सिक्तस्तापमिवाचलः ॥ उद्विरन् स्वमनाचार-मनमत्तं मुनिं द्विजः ॥१५॥ ततस्तस्मै शंखसाधुः, साधुधर्ममुपादिशत् ॥ तदाकोरुवैराग्यः, पर्यत्राजीत्पुरोहितः॥ १६ ॥ जातिरूपमदो चक्रे, स व्रतं पालयन्नपि ॥ मदो हि प्राणिनां मत्त- गजेन्द्र इव दुर्जयः ॥ १७ ॥ तौ च प्रान्तेप्यनालोच्य, मदौ मृत्वा दिवङ्गतः ॥ समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपल्लवान् ॥ १८॥ [ इतश्च ] ___ मृतगङ्गातीरवासी, श्वपचानामधीश्वरः ॥ बलकोट्टाख्यजातीनां, बलकोट्टाभिधोऽभवत् ॥ १९ ॥ तस्याभूतामुभे गौरी-गान्धारीसंज्ञके प्रिये ॥ सोथ देवश्च्युतः खर्गा-गौयोंः कुक्षाववातरत् ॥ २० ॥ वसन्तसङ्गसम्भूतप्रभूतनवपल्लवम् ॥ खप्ने गौरी तदाऽपश्य-त्सहकारमहीरहम् ॥ २१॥ तथा पृष्टः स्वप्नफल-मित्यूचे खानपाठकः ॥ खप्नेनानेन भद्रे ! त्वं, सुतं श्रेष्ठमवाप्स्यसि ॥ २२ ॥ साथ तुष्टा दधौ गर्भ-मर्भश्च सुषुवे क्रमात् ॥ बलकोदृस्ततस्तस्य, बल इत्यभिधां व्यधात् ॥ २३॥ स हि जातिमदात्याच्या-लेमे जन्माधमे कुले ॥ रूपदर्पाच
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy