SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ॥३५॥ उत्तराध्ययन तेनेत्युक्तस्तदम्बायै, तत्सर्वं स द्विजोऽवदत् ॥ तच्छृत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ॥ ३६ ॥ यत्सूनोः द्वितीयमध्य प्रस्थितस्याभू-निमित्तमिदमुत्तमम् ॥ तदसौ नव पूर्वाणि, साधिकानि पठिष्यति ॥ ३७ ॥ दध्यौ विशुद्धधीरार्य- यनम् (२) रक्षितोऽपि पथि ब्रजन् ॥ लप्स्येऽहं दृष्टिवादस्य, विभागानव साधिकान् ॥ ३८ ॥ अथेक्षुसदनं प्राप्तः, सोमसूरित्यचिन्तयत् ॥ अज्ञातवन्दनविधि-मध्ये गच्छाम्यहं कथम् ? ॥ ३९ ॥ तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकैः समम् ॥ साधूनां वन्दनाचारं, यथा तेभ्योऽवधारये ॥४०॥ विमृश्येति क्षणं याव-वार्यस्थादार्यरक्षितः॥ तत्रागाद ढहरश्राद्ध-स्तावद्वन्दनहेतवे॥४१॥ सोऽविशद्वसतिं बाढ-वरं नषेधिकीं वदन् ॥ गर्जनिवेर्यापथिकी, प्रतिचक्राम चक्रमात ॥ ४२ ॥ अभिवन्द्य ततः सूरीन् , मुनींश्च विधिपूर्वकम् ॥ पुरो गुरोरुपाविक्षत्, क्षितिं च प्रत्युपेक्ष्य सः ॥ ४३॥ अथार्यरक्षितस्तस्मा-दवधार्याखिलं विधिम् ॥ प्रविश्योपाश्रये सूरीन् , मुनींश्च विधिनाऽनमत् ॥४४॥ किन्त्वसौ ढड्डरश्राद्ध-मनत्वोपाविशद्यतः ॥ नव्यश्राद्धोऽयमिति तं, गुरवो विविदुस्ततः॥४५॥ पप्रच्छुश्च तमाचार्या, धर्मालाप्तिस्तं कुतोऽभवत् ? ॥ सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददे॥४६॥ तं वीक्ष्य मुनयोऽप्युच्चै-गुरून् व्यज्ञपय निति ॥आर्यरक्षितभट्टोऽयं-रुद्रसोमात्मजः प्रभो !॥४७॥ चतुर्दशानां सद्विद्या-स्थानानामेष पारगः ॥प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ॥४८॥ अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः ॥ तदस्मिन् श्रावकाचारं, प्रेक्ष्य चित्रीयते मनः!॥४९॥ अथार्यरक्षितः सर्व, खवृत्तान्तमुदीर्य तम् ॥ इति व्यजिज्ञपत्सूरीन् , पद्मकोशीकृताअलिः ॥५०॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy