SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अध्येतुं दृष्टिवादं हि, पूज्यानहमशिश्रियम् ॥ तत्तदध्यापनेनोचैः,प्रसादः क्रियतां मयि !॥५१॥ तच्छ्रुत्वा सूरयोऽप्यूचुयद्येवं तत्परिव्रज ॥ क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥५२॥ सोमजन्माप्युवाचैवं, प्रव्राजयत मां द्रुतम् ॥ किन्तु स्थानादतोऽन्यत्र, गन्तव्यं सूरिपुङ्गवः ॥ ५३॥ इह स्थितं हि मां राजा, खजनाः पूर्जनास्तथा ॥ दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥ ५४ ॥ तच्छ्रुत्वा गच्छयुक्तास्ते, तमादायान्यतो ब्रजन् ॥ अभूदाद्यमिदं शिष्यचौर्य ! श्रीवीरशासने ॥५५॥ ततः प्रव्राजयन्नार्य-रक्षितं मुनिपुङ्गवाः ॥ क्रमाञ्चैकादशाङ्गानि, गुरुपार्थे पपाठ सः ॥५६॥ यावांस्तोसलिपुत्राणां, दृष्टिवादः स्फुटोऽभवत् ॥ तावन्तं तं च जग्राह, बुद्धिमानार्यरक्षितः॥ ५७॥ श्रीवजखामिनो भूयान् , दृष्टिवादोऽस्ति सम्प्रति ॥ श्रुत्वेति सोऽचलद्वज्रा-श्रितां प्रति पुरीपुरीम् ॥५८॥ मार्गायातामथावंती-मासदत् सोमदेवभूः॥ तत्र श्रीभद्रगुप्ताह- सूरिशक्रान्ननाम च ॥५९॥ ते सूरयोऽपि तं सर्व-गुणाढ्यं श्रुतपूर्विणः॥ उपलक्ष्यालिलिङ्गुर्दाकु, प्रमोदाच्चैवमूचिरे॥६०॥ धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च ॥ यत्त्य|क्त्वा शासनं शैवं, जैनमङ्गीकृतं त्वया !॥६१॥ किन्चाद्यानशनं कर्तु-मिच्छामि स्वल्पजीवितः ॥ ततस्त्वां प्रार्थये वत्स !, भव नियोमको मम ॥ ६२॥ ततोऽङ्गीकृत्य तद्वाचं, तस्थौ तत्रार्यरक्षितः॥ ते सूरयोप्यनशनं, विधायेति तमूचिरे ॥६३॥ एकत्रोपाश्रये वज्र-खामिना सह मा वसेः॥ किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ॥ ६४ ॥ वसेद्वज्रेण साई हि, यः सोपक्रमजीवितः॥ एकामपि निशां नूनं, तेन साकं म्रियेत सः ॥६५॥ तद्वचः प्रतिपद्याथ,
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy