________________
व्याख्या - हिंस्रः खभावत एव प्राणिघातकः, बालोऽज्ञः, मृषावादी असत्यभाषकः, अध्वनि मार्गे व्रजतो जनानिति शेषः, विविधं सर्वस्वहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादत्तहरः, स्तेनो ग्रामपुरादिषु चौर्येण कल्पितवृत्तिः, मायी वञ्चनैकचित्तः, 'कं नु हरेत्ति' कमिति कस्यार्थं नु वितर्के हरिष्यामीत्यध्यवसायी कंनु - हरः, शठो वक्राचारः ॥ ५ ॥ स्त्रीषु विषयेषु च गृद्धः चः समुच्चये, महानपरिमित आरम्भो भूरिजन्तूपमर्दको व्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुआनः खादन् सुरां मद्यं मांसं परिवृढः पुष्टमांसशोणिततया नानाक्रियासमर्थः, अत एव परंदमोऽन्येषां दमयिता ॥ ६ ॥ अजस्य छागस्य कर्करं यद्भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावादतिपक्कं मांसं तद्भोजी, अत एव तुन्दिलो बृहज्जठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोपल - क्षणमेतत्, आयुर्जीवितं नरके सीमन्तकादौ कांक्षतीव कांक्षति, तद्योग्यकर्मारम्भितया कमिव क इवेत्याह- 'जहा एस व एलएत्ति' आदेशमिव यथा एडकः प्रोक्तरूपः । इह च हिंसेत्यादिना सार्धश्लोकद्वयेनारम्भरसगृद्धी प्रोक्ते, आउअमित्यादिना श्लोकार्थेन तु दुर्गतिप्राप्तिरूपोपाय उक्त इति सूत्रत्रयार्थः ॥७॥ अथ साक्षादैहिकापायं सूत्रद्वयेनाह - मूलम् - आसणं सयणं जाणं, वित्तं कामे अभुंजिआ । दुस्साहडं धणं हिच्चा, बहु संचिणिआ रयं ॥८॥ तओ कम्मगुरू जंतू, पच्चुत्पन्नपरायणे । अएव आगया एसे, मरणंतंमि सोअई ॥ ९ ॥ व्याख्या—आसनं, शयनं, यानं वाहनं, वित्तं, कामांश्च शब्दादीन् भुक्त्वोपभुज्य, दुःखेन संहियते मील्यते
156464564445