SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ किमु क्षीरा-म्भोधिरुल्लङ्घतेऽवधिम् ? ॥१६७॥ भवादृशा अपि यदा, कुर्वन्त्येवमनीदृशम् ॥ दृढधर्मा जगति क-स्तदा बन्यो भविष्यति ॥ १६८ ॥ तदुराचरितं सर्व-मालोच्येदं महाधियः! ॥ समाचरत चारित्रं, कर्मकक्षहुताशनम् ॥ १६९ ॥ गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः ॥ स सूरिः खदुराचार, भूयो भूयो निनिन्द तम् ॥ १७०॥ वारं वारं च तं देव-मार्याषाढोऽब्रवीदिति ॥ साधु साधु त्वया वत्स !, बोधितोहं महामते ! ॥ १७१॥ अहं हि नरकाध्वानं, प्रपन्नोऽपि खकर्मभिः॥ मोक्षमार्ग त्वयैवाऽथ, प्रापितो भावबन्धुना ॥१७२॥ धर्माद्भष्टस्य मे भूयो, धर्मदानविधायिनः ॥ तवाऽनृणोऽहं नैव स्यां, ब्रवीमि किमतः परम् ? ॥ १७३ ॥ तं देवमभिनन्येति, स्वस्थानमगमदुरुः ॥ आलोचितप्रतिक्रान्त-स्तपोत्युग्रं चकार च ॥ १७४ ॥ सुरोऽपि सूरिं नत्वा तं, प्रमोदभरमेदुरः ॥ क्षमयित्वा खापराधं, सुरलोकमगात्पुनः ॥ १७५ ॥ नाषाढसूरिरिति दर्शनगोचरं प्राक्, सेहे परीषहममुं न तथा विधेयम् ॥ 16 सूरिः स एव सहते स्म यथा च पश्चा-त्सर्वैस्तथा व्रतिवरैः सततं स सद्यः ॥ १७६ ॥ इति सम्यक्त्वपरीषहे श्रीआपाढाचार्यकथा ॥ २२॥ इत्युक्ता द्वाविंशतिः परीषहाः॥ नन्वते कस्मिन् कस्मिन्कर्मण्यन्तर्भवन्तीति चेदुच्यते-“दंसणमोहे सण-परीसहो पण्ण १ नाण २ पढमंमि ॥ चरिमेलाभपरीसह, सत्तेव चरित्तमोहंमि ॥१॥' अत्र 'पढमंमित्ति' ज्ञानावरणे, 'चरिमेत्ति' अंतराये । अथ यदुक्तं सप्त चरित्रमोहे, इति तानाह-"अक्कोस १ अरइ २ इत्थी ३, निसीहिआ ४ अचेल ५ जायणा ६ चेव ॥ सकार २०१६ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy