SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥९१॥ पुरकारे ७, एक्कारस वेअणिजंमि ॥२॥” यदुक्तं एकादश वेदनीये इति तेऽमी-"पंचेव आणुपुबी ५, चरिआ ६ द्वितीयमध्य. सेजा ७ तहेव जल्ले ८ अ॥ वह ९ रोग १० तणप्फासा ११, सेसेसु नत्थि अवयारो ॥३॥” तथा उत्कर्षतः समकायनम् (२) विंशतिरेव परीषहा उदयन्ते, मिथो विरुद्धयोः शीतोष्णयोश्चर्यानषेधिक्योश्चैकतरस्यैव भावात् । तथाऽनिवृत्तिवादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, उदयस्तु पूर्वोक्तहेतोविंशतरेव । सूक्ष्मसम्परायादित्रये तु चतुर्दश, सप्तानां चारित्रमोहप्रतिबद्धानां दर्शनपरीपहस्य च तत्राभावात् , उदयस्त्वेतेषु द्वादशानाम् । सयोगिकेवलिनि एकादश, वेद्यप्रतिबद्धानामेव तत्र सम्भवात् , उदयस्त्विह नवानामिति ॥ साम्प्रतमध्ययनोपसंहारार्थमाहमूलम्-एए परीसहा सवे, कासवेणं पवेइआ।जे भिक्खूण विहणणेजा, पुट्टो केणइ कण्हुइत्ति बेमि ॥४६॥ व्याख्या-एते अनन्तरोक्ताः परीषहाः सर्वे काश्यपेन श्रीमहावीरस्वामिना प्रवेदिताः प्ररूपिता यान् ज्ञात्वेति शेषः, भिक्षुर्न विहन्येत न पराजीयेत, स्पृष्टो बाधितः केनापि द्वाविंशतेरेकतरेणापि, 'कण्हुइत्ति' कस्मिंश्चिद्देशे काले वा इति सूत्रार्थः, 'इतिः' परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥४६॥ ജയരയരയരയരയരയറുക ളു इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्याय-टि श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ॥२॥ லைலலைலலை RAHAS
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy