________________
धर्षिताः कथम् ? ॥ ३६ ॥ अन्त्या ह्यवयवा देय-वस्तूनामर्पिता मया ॥ अन्त्यावयवमात्रश्च, मते वोऽवयवी भवेत् ! ॥३७॥ तच्चेत्सत्यं तदा का हि, धर्षणा विहिता मया ? ॥ एभिरेव हि पूर्णानां, कार्य भावि भवन्मते ! ॥ ३८ ॥ अथ चेदर्हतां वाणी, सूनृताभ्युपगम्यते ॥ तदा तेषां मतेनाहं, भवन्तं प्रतिलम्भये ॥ ३९ ॥ तया गिरा तिष्यगुप्तः, संबुद्धः सपरिच्छदः ॥ इत्यभ्यधान्महाश्राद्ध !, सत्येयं प्रेरणा कृता !॥४०॥ अथ वीर विभोर्वाक्यं, प्रमाणं मम सर्वदा ॥ तदुत्थापनसञ्जातं, मिथ्या॑दुष्कृतमस्तु मे ॥४१॥ ततः प्रमुदितखान्तो, मित्रश्रीभक्तिपूर्वकम् ॥ वस्त्राहारादिभिः सम्यक, प्रतिलम्भयति स्म तम् ॥४२॥ आलोच्य तत्पापमवाप तिष्य-गुप्तोऽपि शुद्धिं परिवारयुक्तः॥ गतोऽपि बोधिर्यदनेन लब्ध-स्तदस्य भाग्यं विषयो न वाचाम् ॥४३॥ इति द्वितीयनिह्नवकथा ॥ २॥ __ "चतुर्दशोत्तरे वीर-मोक्षाद्वर्षशतद्वये॥जातस्याऽथ तृतीयस्य, निह्नवस्योच्यते कथा ॥१॥" "तद्यथा"- पुर्या श्वेतम्बि-18|| कानाम्यां, वने पोलाशसंज्ञके ॥ सगच्छाः समवासाघु-रार्याषाढाख्यसूरयः ॥२॥ आगाढयोगवहनं, प्रतिपन्नाः क्रियारताः॥ बभूवुर्बहवः शिष्या-स्तेषामागमपाठिनः ॥३॥ अन्यदा निशि सूरीणां, तेषामासीद्विसूचिका ॥ न त्वजागरयन् कञ्चि-द्विनेयं ते महाधियः !॥४॥तया रुजा विपन्नाश्च, कल्पे सौधर्मसंज्ञके ॥ विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः॥५॥ सोऽथ देवोवधिज्ञानो-पयोगात्तं निजं वपुः ॥ ददर्शागाढयोगान्तः-प्रविष्टांस्तांश्च संयतान् ॥६॥ ततस्तत्कृपया खाङ्गे, प्रविश्य स सुरो मुनीन् ॥ वैरात्रिकस्य वेलाऽभू-दित्युदित्वोदतिष्ठपत् ॥७॥
उ. २१