SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १२१ ॥ प्राग्वद्योगक्रियां सर्वा, कारयंस्तांश्च पाठयन् ॥ दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ॥ ८ ॥ निर्व्यूढयोगकार्यास्ता-नथेत्यूचे स निर्जरः ॥ देवभूयं गतोऽभूव-ममुकस्मिन् दिने ह्यहम् ॥ ९ ॥ खाङ्गे च प्राविशं भूयो, युष्मद्योगसमासये ॥ अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ॥ १० ॥ तदसंयतभावेऽपि, युष्माभिः संयतैर्मया ॥ कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ॥ ११ ॥ क्षमयित्वेति तान् देवो, देहं हित्वाऽगमद्दिवम् ॥ तदङ्गं तेऽपि मुनयः, परिष्ठाप्येत्यचिन्तयन् ॥ १२ ॥ अज्ञानाद्वन्दितोऽस्माभि - रियत् कालमसंयतः ॥ तदन्योऽपि मुनिर्देवः, संयतो वेति वेत्ति कः ? ॥ १३ ॥ यथाऽहं नाऽपरं वेद्मि तथा सोऽपि न मामिति । एवं सुरी वा साध्वी वे - त्यार्यिकामपि वेत्ति कः ? ॥ १४ ॥ ततः सकलमव्यक्तं वक्तव्यं तत्त्ववेदिभिः ॥ यथा न स्यान्मृषावादो, न चासंयतवन्दनम् ॥ १५ ॥ ध्यायन्त इति ते जाताः, शङ्कामिध्यात्वमाश्रिताः ॥ अव्यक्तभावखीकारा - नावन्दन्त परस्प रम् ॥ १६ ॥ अव्यक्तभावं ते सर्वे ऽन्येषामपि पुरस्तथा ॥ प्ररूपयन्तो व्यहरन्, सममेव यथारुचि ! ॥ १७ ॥ ज्ञात्वा विप्रतिपन्नांस्तान्, स्थविराः केचिदूचिरे ॥ अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ॥ १८ ॥ निर्णेतुं शक्यते किञ्चिदपि ज्ञानेन नैव यत् ॥ अव्यक्ताः प्रतिपत्तव्या - स्तद्भावाः सकला अपि ! ॥ १९ ॥ न चेदं सङ्गतं युष्म- न्मतं युक्तिविरोधतः ॥ यद्वस्तुनिर्णयकरं ज्ञानमेवोपलभ्यते ! ॥ २० ॥ चेद् ज्ञानस्याखिलस्यापि न स्यान्निश्चयकारिता | ज्ञानोपदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ॥ २१ ॥ किञ्च चेत्सर्वथा ज्ञानं नैव निश्चयकार - तृतीयमध्ययनम् (३) ॥ १२१ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy