SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ * * * * क तत्कथं प्रत्यहं भक्त-पानादेरपि निश्चयः ? ॥२२॥ यतः-"इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् ॥ इत्या पिज्ञानं. विना निश्चीयते न हि ॥ २३॥” अथ चेद्बहुशो दृष्ट-संवादं व्यवहारतः ॥ उच्यते भक्तपानादे-ज्ञान निर्णयकारकम् ॥ २४ ॥ व्यवहारादेव तर्हि, साध्वादेरपि वस्तुनः ॥ ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ? ॥ २५॥ छद्मस्थानां हि सर्वा स्या-त्प्रवृत्तिर्व्यवहारतः ॥ तदुच्छेदे तु तीर्थस्या-ऽप्युच्छेदो यत्प्रसज्यते ॥ २६ ॥ यदाहुः-"जइ जिणमयं पवजह, ता मा ववहार निच्छए मुअह ॥ ववहार नओच्छेए, तित्थुच्छेओ जओ वस्सं ॥ २७॥" व्यवहारं प्रपद्यध्वं, तब्यमपि साधवः! ॥ इत्युक्ता अपि तैव, तत्यजुस्ते तमाग्रहम् ॥ २८ ॥ ततः कायोत्सर्गपूर्व, स्थविरैस्ते बहिष्कृताः ॥ पर्यटन्तोऽन्यदा जग्मुः, पुरं राजगृहाभिधम् ॥ २९ ॥ मौर्यवंश्यो नृपस्तत्र, बलभद्राभिधोऽभवत् ॥ आगतान् स्वपुरेऽश्रीपी-यक्तः सोऽव्यक्तनिवान् ॥ ३०॥ सुश्रावकः स राजा तान्, प्रतिबोधयितुं निजैः ॥ भटैरानाययबद्धां-श्चैत्याद्गुणशिलाह्वयात् ॥ ३१ ॥ कटमर्दैन सर्वान-प्यमून्मर्दयतेति च ॥ सेवका नादिशद्भूमान् , दर्शयन् कृत्रिमा रुषम् ॥ ३२ ॥ कटमर्दे हि मद्यन्ते, कटाधःस्था जना द्विपैः ॥ इति द्विपान् कटांप्राश्चैवा-निन्यिरे राजपूरुषाः ॥ ३३॥ तान्वीक्ष्य मुनयो भीता, इति भूपतिमूचिरे ॥ श्राद्धोऽपि त्वं कथं साधू-नस्मान् हंसि महीपते ! ॥३४॥ तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा ॥प्रोक्ते ते प्रोचिरे राज-नूनं साधूनवेहि नः ॥३५॥ भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते ॥ तन्नः साधूनवेहीति, युष्माभिः कथ्यते कथम् ? ॥३६॥ युष्म * *
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy