SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१२२॥ *SOSASSASSICURAMOS न्मते चाहमपि, श्राद्धोऽन्यो वाऽस्मि तत्कथम् ॥ यूयं मां श्रावकं ब्रूत, खयमव्यक्तवादिनः? ॥३७॥ अथ चेत्प्रतिपद्येत, तृतीयमध्यव्यवहारनयस्तदा ॥ निर्ग्रन्थश्रमणान् युष्मान्, श्रद्दधाम्यहमुत्तमान् ॥३८॥ ततस्ते लजिता बाढं, संबुद्धा भूभुजो यनम् (३) गिरा ॥ श्रमणाः स्मो वयमिति, निश्शङ्कं प्रतिपेदिरे ॥३९॥ ऊचुश्चैवं चिरभ्रान्ताः, साधु राजंस्त्वया वयम् ॥ सन्मार्ग प्रापिता मार्ग-दर्शिनेव विलोचनाः॥४०॥ ततोऽवादीनपो युष्मान् , प्रतिबोधयितुं मया ॥ अयुक्तं विदधे यत्त-मर्षणीयं महर्षिभिः॥४१॥ इत्युदीर्य बहुमानपूर्वकं, तेन भूपतिवरेण वन्दिताः ॥ साधवः पुनरवाप्तबोधयः, पूर्ववजगति ते विजहिरे ॥४२॥ इति तृतीयनिह्नवकथा ॥३॥ है। "खामिमोक्षाद्गते विंश-त्यधिकेऽब्दशतद्वये ॥ उत्पन्नस्याऽथ तुर्यस्य, निह्नवस्य कथां ब्रुवे ॥१॥" "तथाहि" नगयाँ मिथिलाख्यायां, चैसे लक्ष्मीगृहाभिधे ॥ समवासार्पराचार्याः, श्रीमहागिरिसंज्ञकाः ॥२॥ तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः॥ अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ॥३॥ पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा ॥ तस्य नैपुणिकं वस्तु, पठतोऽर्थोऽयमागमत् ॥ ४॥ वर्तमानक्षणगता, जीवा नैरयिकादयः ॥ वैमा-3 निकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ॥ ५॥ इह विप्रतिपन्नः स, प्रत्यपद्यत सर्वथा ॥ जीवादीनां पदार्थानां, ॥१२२॥ समुच्छेदं प्रतिक्षणम् ॥ ६॥ ऊचे च सर्वथा सर्व, वस्तूत्पन्नमनुक्षणम् ॥ याति नाशं यथा शक्र-चापविद्युद्घनादयः ॥ ७॥ इत्यूचानं तमाचार्याः, स्माहुरेवं महाधियः ॥ सर्वथा वस्तुनो नाशं, मा स्वीकार्षीः प्रतिक्षणम् ॥ ८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy