SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ यतः-"अपरापरपर्यायो-त्पत्तिनाशाद्यपेक्षया ॥ कथञ्चिदेव वस्तूनां, नाशोऽनुक्षणमिष्यते ॥९॥" सर्वथा ह्यर्थविध्वंस-खीकारे तु क्षणान्तरे ॥ प्रत्यक्षेण तथारूपः, पदार्थो दृश्यते कथम् ? ॥ १० ॥ “किञ्च"-प्रतिक्षणं वस्तुनाशे, सर्वथा स्वीकृते कथम् ॥ ऐहिकः पारत्रिकश्च, व्यवहारोऽपि सिध्यति ? ॥ ११ ॥ तथाहि-"भुक्तिप्रारम्भकोऽन्यः स्या-तृप्तिरन्यस्य जायते ॥ अन्यो गच्छति पन्थान-मन्योऽनुभवति श्रमम् ॥ १२ ॥” “पश्यत्यन्यो घटाद्यर्थान् , ज्ञानमन्यस्य जायते ॥ अन्यः प्रारभते कार्य, कर्ता चान्यो भवेजनः ॥ १३॥” “अन्यः करोति दुष्कर्म, नरके याति चापरः ॥ चारित्रं पालयत्यन्यो, मुक्तिमन्योऽधिगच्छति ॥ १४ ॥” इति सर्व वैपरीत्यं, भवेत्क्षणिकवादतः॥ न चैतदृष्टमिष्टं वा, केनापि क्वचिदप्यहो!॥ १५॥ तत्सर्वथा वस्तुनाशो-ऽनुक्षणं नैव यौक्तिकः॥ ज्ञेयोऽसौ | किन्तु पर्याय-परावृत्त्या विचक्षणैः ॥ १६ ॥ सूत्रेऽपि नारकादीना-मुच्छेदो यः प्रकीर्तितः ॥ पर्यायान्तरसम्प्रा. प्ति-रूपः सोऽप्यवबुध्यताम् ॥ १७ ॥ जैनानां बखिलं वस्तु, द्रव्यतः शाश्वतं भवेत् ॥ अपरापरपर्याय-परावृत्ते-2 स्त्वशाश्वतम् ॥ १८॥ इति सूरिभिरुक्तोपि, न मेने स मुनिर्यदा ॥ बहिश्चक्रे तदोत्सर्ग-पूर्व निह्नव इत्ययम् ॥ १९॥ ततो व्युद्ाहितैः सार्ध, साधुभिर्भूतलेऽश्रमत् ॥ स समुच्छेदवादोक्त्या, लोकान् व्युद्धाहयन् भृशम् ॥२०॥ सोऽन्यदा पर्यटन राज-गृहेगात्सपरिच्छदः ॥ शुल्काध्यक्षास्तत्र राज्ञो, बभूवुः श्रावकोत्तमाः! ॥ २१॥ ते च तानागतान् ज्ञात्वा, सामुच्छेदिकनिहवान् ॥ दध्युरेतान् बोधयामः, कर्कशेनापि कर्मणा ॥ २२ ॥ यतः-"यः कर्कशो CASADA SESERLER
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy