________________
करण्डुच.
रित्रम् ५२-६६
सम्पूर्णे, शय्यातरगृहस्थिता ॥ असूत सुतरत्नं सा, मणिं रोहणभूरिव ॥ ५२ ॥ ततो गृहीत्वा तं बालं, गत्वा प्रेतबनेऽमुचत् ॥ तत्तातनाममुद्रात, रत्नकम्बलवेष्टितम् ॥ ५३॥ द्रष्टुं तद्वाहकं साथ, तञ्च त्रातुमुपद्रवात् ॥ प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमामृताया ॥५४॥ तत्रायातस्तदा प्रेत-बनेशोऽपत्यवर्जितः॥ जगृहे तं निजगृहे, नीत्वा पल्यै च दत्तवान् ॥ ५५॥ तस्यावकर्णक इति, सानन्दः सोभिधां व्यधात् ॥ आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् ॥ ५६ ॥ व गर्भ इति साध्वीभिः, पृष्टा चेत्यवदन्मृषा ॥ मृतः सुतो मया जातः, स च त्यक्तः कचित्ततः॥ ५७॥ साध्व्योपि सरलाः सर्वा-स्तत्तथा प्रतिपेदिरे ॥ बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ॥५८॥ वत्सं गौरिव तं बालं, ध्यायन्ती सा तु संयता ॥ जगाम प्रत्यहं प्रेत-वनपालस्य धामनि ॥ ५९॥ तत्पत्या |च समं प्रेम, चक्रे सम्भाषणादिभिः ॥ अलालयच तं बाल-महो ! मोहोतिदुर्जयः॥६० ॥ अवाप यच्च भिक्षायां, शोभनं मोदकादिकम् ॥ तद्वालायार्पयत्सोपि, तस्यां रागं दधौ ततः ॥ ६१ ॥ जन्मतस्तस्य देहे च, रूक्षकण्डूरभूपृशम् ॥ स च वृद्धिङ्गतो बालैः, समं कीडन्नदोवदत् ॥ ६२ ॥ अहं वो नृपतिस्तस्मा-घूयं दत्त करं मम ॥ बालाः प्रोचुः करस्थाने, बेहि किं ते प्रदीयते ? ॥ ६३॥ स प्रोचे चण्डकण्डूको, मां कण्डूयध्वमुच्चकैः ॥ करणानेन || तुष्टोस्मि, कृतं तदपरैः करैः ॥६४ ॥ ततस्तस्याभिधां बालाः, करकण्डूरिति व्यधुः ॥ गुणक्रियादिभिर्नाम, नवीनमपि
जायते ॥ ६५ ॥ किञ्चित्प्रौढत्वमापन्नः, श्मशानं च ररक्ष सः ॥ तदेव हि कुले तस्मिन् , गीयते कार्यमुत्तमम् ॥६६॥
ॐॐॐ545