SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ६७-८० उत्तराध्ययन । हेतोः कुतश्चिदायातौ, श्मशाने तत्र चान्यदा ॥ द्वौ मुनी वंशजालान्त-दण्डमेकमपश्यताम् ॥६७ ॥ तयो- नवमाध्य. ॥२०५॥ गरेको यतिर्दण्ड-लक्षणज्ञो महामतिः॥ तं वंशं दर्शयन्नेव-मवादीदपरं मुनिम् ॥ ६८ ॥ यावता वर्धते चत्वा- यङ्गु- यनम् (९) लान्यपराण्ययम् ॥ तावत्प्रतीक्ष्य यो बेन-मादत्ते स भवेन्नृपः ॥ ६९ ॥ तच साधुवचो वृक्ष-निकुञ्जान्तरवर्तिना ॥ करकण्डुच रित्रम् तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् ॥ ७० ॥ ततो वंशस्य तस्याधः, खनित्वा चतुरङ्गुलम् ॥ छित्त्वा प्रछन्नवृत्त्या तं, वाडवो दण्डमाददे ॥ ७१ ॥ तच प्रेक्ष्य द्विजेनात्तं, करकण्डुः क्रुधा ज्वलन् ॥ आछिद्य जगृहे को वा, राज्यलक्ष्मी न कांक्षति ? ॥ ७२ ॥ ततस्तं करेण नीत्वा, दण्डं देहीत्यवग् द्विजः ॥ स प्रोचेऽसौ श्मशाने मे, जातस्तन्न ददामि ते ॥७३॥ विप्रोवोचदनेनैव, कार्य मे वर्तते ततः ॥ अस्य स्थानेन्यमादाय, दण्डमेनं प्रदेहि मे है ॥७४ ॥ तेनेत्युक्तोपि तं दण्डं, करकण्डुरनर्पयन् ॥ कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ॥ ७५ ॥ बालो-TR ब्रवीत्सुरस्येव, दण्डस्यास्य प्रभावतः ॥ भविष्यामि नृपो नूनं, तदस्यामुं ददे कथम् ? ॥ ७६ ॥ ततो विहस्य तं बाल-मेवं कारणिका जगुः ॥ राज्यावाप्तौ द्विजस्यास्य, ग्राममेकं त्वमर्पयेः ॥ ७७ ॥ तत्प्रपद्य निजं धाम, कर-18 कण्डुर्ययौ द्रुतम् ॥ द्विजोप्यन्यान् द्विजानेव-मूचे गत्वा खमास्पदम् ॥ ७८॥ दण्डं ममापि जग्राह, बलाचाण्डाल R ॥२०५॥ वालकः ॥ ततः कथञ्चित्तं हत्वा, दण्डमादद्महे वयम् ॥ ७९ ॥ कथमप्येतदाका -वकर्णकपिता ततः ॥ पत्नीपुत्रान्वितोनश्य-त्सुतरक्षाकृते क्षणात् ॥ ८॥ गत्वा च काञ्चनपुरे, ते त्रयोपि पुराबहिः ॥ कुत्रापि सुषुपुः
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy