________________
श्रान्ताः, खापो हि श्रमभेषजम् ॥ ८१ ॥ तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत ॥ ततोधिवासयामासु-स्तु-18 करकण्डुच
रित्रम् रहं मंत्रिपङ्गवाः ॥ ८२॥ तुरङ्गोऽपि भ्रमंस्तेषां, सुप्तानामन्तिके ययौ ॥ तश्च प्रदक्षिणी चक्रे, बालं देवमिवास्तिकः
८१-९५ ॥ ८३॥ तञ्च तेजखिनं श्रेष्ठ-लक्षणं वीक्ष्य नागराः ॥ तुष्टा जयारवं चक्रु-स्तूर्यनिर्घोषमिश्रितम् ॥ ८४ ॥ ध्वानेन तेन विध्वस्त-प्रमीलः सोथ बालकः ॥ जृम्भायमाण उत्तस्था-वारुरोह च तं हयम् ॥ ८५ ॥ तूर्यध्वनिप्रतिध्वाना-पूर्णद्यावाक्षमान्तरः ॥ पौरैः परीतः परित-स्तारापतिरिवोडुभिः ॥ ८६ ॥ युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः ॥ अरोधि मातङ्ग इति, मातङ्ग इव शूकरैः ॥ ८७॥ [ युग्मम् ] ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोकरोत् ॥ तस्य राज्यप्रदाने हि, स एव प्रतिभूरभूत् ॥ ८८॥ निर्मितो ज्वलनेनेवा-ज्वलद्दण्डस्तदार च सः॥ तश्च प्रेक्ष्य द्विजा भीता, नेशुः शरमिव द्विकाः॥८९॥ पुरे प्रविष्टो राज्ये चा-भिषिक्तो धीसखादिभिः॥ सोथ राजा सजातीया-न्मातङ्गान्विदधे द्विजान् ॥ ९० ॥ उक्तञ्च-"दधिवाहनपुत्रेण,राज्ञा च करकण्डुना ॥ वाटधानकवास्तव्या-चाण्डाला ब्राह्मणीकृताः ॥ ९१-" तस्यावकर्णक इति, त्यक्त्वाद्यं नाम नीरसम् ॥ वालोक्तमेव तत्प्रोचुः, करकण्डुरिति प्रजाः॥ ९२ ॥ प्राप्तराज्यञ्च तं श्रुत्वा, दण्डच्छेदी स वाडवः ॥ आगत्योवाच राजन्मे, देहि ग्राम तदोदितम् ॥ ९३॥ कं ग्रामं ते ददामीति, राज्ञोक्तः स पुनर्जगौ ॥ चम्पायां मे गृहं तस्मा-त्तद्देशे ग्राममर्पय ॥ ९४ ॥ ततो लेखं लिलेखैवं, करकण्डुनरेश्वरः ॥ दधिवाहनभूपालं, प्रति निष्प्रतिमो गुणैः ॥ ९५॥